SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ ENG ललितवि० पं० युता. ॥१४॥ 00000000000000000000 न चैतदेवं यत्तस्मात्प्रातिभज्ञानसङ्गतः । सामर्थ्ययोगोऽवाच्योऽस्ति, सर्वज्ञत्वादिसाधनम् ॥ ६॥ द्विधाऽयं धर्मसंन्यासयोगसंन्याससंज्ञितः । क्षायोपशमिका धर्मा, योगाः कायादिकर्म तु ॥७॥ स्यादेतत् , अस्त्वेवमपि का नो बाधेत्यत्राह-"नचैतदेवं” अनन्तरोदितं, शास्त्रादयोगिकेवलित्वावगमेऽपि सिद्ध्यसिद्धेः,8 यस्मादेवं तस्मात् “प्रातिभज्ञानसङ्गतो” मार्गानुसारिप्रकृष्टोहज्ञानयुक्तः,किमित्याह-“सामर्थ्ययोगः"सामर्थ्यप्रधानो योगः सामर्थ्ययोगः, प्रक्रमाद्धर्मव्यापार एव क्षपकश्रेणिगतो गृह्यते, अयमवाच्योऽस्ति तद्योगिस्वसंवेदनसिद्धः, “सर्वज्ञत्वादिसाधन" अक्षेपणातः सर्वज्ञत्वसिद्धेः॥ ६॥ सामर्थ्ययोगभेदाभिधानायाह-"द्विधा" द्विप्रकारोऽयं-सामर्थ्ययोगः, कथमित्याह-"धर्मसंन्यासयोगसंन्याससंज्ञितः” संन्यासो निवृत्तिरुपरम इत्येकोऽर्थः, ततो धर्मसंन्याससंज्ञा सञ्जाताऽस्येतिधर्मसंन्याससंज्ञितस्तारकादिभ्य इत (तदस्य संजातं तारकादिभ्य इतच पा०५-२-३६ ) एवं योगसंन्याससंज्ञासञ्जाताऽस्येति योगसंन्याससंज्ञितः, क एते धर्माः ? के वा योगा इत्याह-"क्षायोपशमिका धर्मा" क्षयोपशमनिर्वृत्ताः क्षान्त्यादयो, योगाः पुनः कायादिव्यापाराः कायोत्सर्गकरणादयः, एवमेव द्विधा सामर्थ्ययोग इति ॥७॥ द्वितीयापूर्वकरणे, प्रथमस्तात्त्विको भवेत् । आयोज्यकरणादूचं, द्वितीय इति तद्विदः ॥ ८॥ यो यदा भवति तं तदाऽभिधातुमाह-"द्वितीयापूर्वकरण इति" ग्रन्थिभेदनिबन्धनप्रथमापूर्वकरणव्यवच्छेदार्थ द्विती१ स्यादेव तत् प्र० T OGE ॥१४॥ For Private Personal Use Only www.jainelibrary.org Jan Education Internal
SR No.600120
Book TitleLalitvistarakhya Chaityavandan Sutra Vrutti
Original Sutra AuthorHaribhadrasuri
AuthorMunichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy