SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ | न्येन शास्त्रेऽभिहितः तदभिधानात् “ तदतिक्रान्तगोचरः" शास्त्रातिक्रान्तविषयः, कुत इत्याह- “शक्त युद्रेकात्” शक्तिप्राबल्यात्, “विशेषेण" न सामान्येन शास्त्रातिक्रान्तगोचरः, सामान्येन फलपर्यवसानत्वाच्छास्त्रस्य, “ सामर्थ्याख्योऽयं " सामर्थ्ययोगाभिधानोऽयं योगः “उत्तमः " सर्वप्रधानोऽक्षेपेण प्रधानफलकारणत्वादिति ॥ ३ ॥ 000000 सिद्ध्याख्यपदसम्प्राप्तिहेतुभेदा न तत्त्वतः । शास्त्रादेवावगम्यन्ते, सर्वथैवेह योगिभिः ॥ ४ ॥ | सर्वथा तत्परिच्छेदात्साक्षात्कारित्वयोगतः । तत्सर्वज्ञत्वसंसिद्धेस्तदा सिद्धिपदातितः ॥ ५ ॥ एतत्समर्थनायैवाह – “सिद्ध्याख्यपदसम्प्राप्तिहेतुभेदा इति” मोक्षाभिधानपदसम्प्राप्तिकारणविशेषाः सम्यग्दर्शनादयः, किमित्याह " न तत्त्वतो” न परमार्थतः “शास्त्रादेव" आगमादेव अवगम्यन्ते, न चैवमपि शास्त्रवैयर्थ्यमित्याह - "सर्व| थैवेह योगिभिः" सर्वैरेव प्रकारैरिह - लोके साधुभिः, अनन्तभेदत्वात्तेषामिति ॥ ४ ॥ सर्वथा तत्परिच्छेदे शास्त्रादेवाभ्यु6 पगम्यमाने दोषमाह - "सर्वथा" सर्वैः प्रकारैः अक्षेपफलसाधकत्वादिभिः " तत्परिच्छेदात् " शास्त्रादेव सियाख्यपदसम्प्रीतेर्हेतुपरिच्छेदात् किमित्याह - "साक्षात्कारित्वयोगतः” केवलेनेव साक्षात्कारित्वयोगात् कारणात् "तत्सर्वज्ञत्वसंसिद्धेः " श्रोतृयोगिसर्वज्ञत्वसंसिद्धेः, अधिकृतहेतुभेदानामन्येन सर्वथा परिच्छेदायोगात्, ततश्च “तदा" श्रवणकाल एव "सिद्धिपदा| तितः” मुक्तिपदाप्तेः, अयोगिकेवलित्वस्यापि शास्त्रादेवायोगिकेवलि स्वभावभवनेनावगतिप्रसङ्गादू, अविषयेऽपि शास्त्रसामर्थ्याभ्युपगम इत्थमपि शास्त्रसामर्थ्यप्रसङ्गात् ॥ ५ ॥ १० संप्राप्तिहेतु० Jain Education International For Private & Personal Use Only 90099999009009990099००० www.jainelibrary.org
SR No.600120
Book TitleLalitvistarakhya Chaityavandan Sutra Vrutti
Original Sutra AuthorHaribhadrasuri
AuthorMunichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy