________________
ललितवि० "न्यायतन्त्रसिद्धाः" इति न्यायो-युक्तिः स एव तन्त्रम्-आगमस्तेन सिद्धाः-प्रतिष्ठिताः, सूत्रतःसमये क्वचिदपि तदश्रव
Oणात्, वक्ष्यति च-"आगमश्चोपपत्तिश्चेत्यादि कर्तुमित्यादिश्लोकनवक' अथास्य व्याख्या-कर्तुमिच्छोः कस्यचिन्निव्याज॥१३॥
मेव तथाविधकर्मक्षयोपशमभावेन, अयमेव विशिष्यते-"श्रुतार्थस्य" श्रुतागमस्यार्थशब्द आगमवचनः, अर्यतेऽनेन तत्त्वमितिकृत्वा, अयमपि कदाचिदज्ञान्येव भवति, क्षयोपशमवैचित्र्याद् ,अत आह-"ज्ञानिनोऽपि" अवगतानुष्ठेयतत्त्वस्यापीति योऽर्थः, एवंभूतस्यापि सतः किमित्याह-"प्रमादतः” प्रमादेन-विकथादिना"विकलः" असम्पूर्णः, कालादिवैकल्यमाश्रित्य 'धर्मयोगो' धर्मव्यापारो 'य' इति वन्दनादिविषयः,स इच्छायोग उच्यते, इच्छाप्रधानत्वं चास्य तथाकालादावकरणादिति। __शास्त्रयोगस्त्विह ज्ञेयो, यथाशक्त्यप्रमादिनः । श्राद्धस्य तीव्रबोधेन, वचसाऽविकलस्तथा ॥२॥ | शास्त्रसंदर्शितोपायस्तदतिक्रान्तगोचरः । शक्त्युद्रेकाद्विशेषेण, सामर्थ्याख्योऽयमुत्तमः ॥३॥ ___ शास्त्रयोगस्वरूपाभिधित्सयाऽऽह-"शास्त्रयोगस्त्विति" शास्त्रप्रधानो योगः शास्त्रयोगः, प्रक्रमादेतद्विषयव्यापार एव, स पुनरिह-योगतन्त्रे ज्ञेयः, कस्य कीदृगित्याह-"यथाशक्ति" शक्त्यनुरूपं "अप्रमादिनो" विकथादिप्रमादरहितस्य, अयमेव विशिष्यते-"श्राद्धस्य" तथाविधमोहापगमात् स्वसम्प्रत्ययात्मिकादिश्रद्धावतः "तीव्रबोधेन" हेतुभूतेन “वचसा" आग| मेनाविकल:-अखण्डः, तथा-कालादिवैकल्याबाधया, न ह्यपटवोऽतिचारदोषज्ञा इति कालादिवैकल्येनावाधायां तीव्रबोधो 10 हेतुतयोपन्यस्तः॥२॥ अथ सामर्थ्ययोगलक्षणमाह-"शास्त्रसंदर्शितोपायः" सामान्येन शास्त्राभिहितोपायः, सामा
१ श्रुतागमोक्तभावस्येत्यर्थः प्र० २ खयं
0000000000000000000
॥ १३॥
Jan Education Intemani
For Private Personel Use Only
www.jainelibrary.org