SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ ललितवि० पं० युता ॥११॥ "चिन्तामणिरत्नावाप्तिहेतुरिति" चिन्तामणिरेव रत्नं मणिजातिप्रधानत्वाच्चिन्तामणिरत्नं, पृथग्वा चिन्तामणिरत्ने, तस्य तयोर्वाऽवाप्तिहेतुः, अभाग्य इतिकृत्वा । “वपन"मित्यादिश्लोकः, वपनं-निक्षेपणं, धर्मस्य-श्रुतचारित्ररूपस्य, बीजफलनिष्पत्तिहेतुर्धर्मबीजं तस्यात्मक्षेत्र इति गम्यं, किं तदित्याह-"सत्प्रशंसादि" सत् संशुद्धं, तच्चेत्थंलक्षणं-'उपादेयधियाऽत्यन्तं, संज्ञाविष्कम्भणान्वितम् । फलाभिसन्धिरहितं, संशुद्धं ह्येतदीदृशम् ॥१॥ प्रशंसादि-वर्णवादकुशलचित्तोचितकृत्यकरणलक्षणं, तद्गतं-धर्मगतं, "तच्चिन्तादि" तस्य धर्मस्य चिन्ता-अभिलाषः, आदिशब्दात् सच्छुत्यादि वक्ष्यमाणम्, अङ्कुरादि-अङ्कुरसत्काण्डादि वक्ष्यमाणमेव ‘फलसिद्धिस्तु निवृतिरिति' प्रतीतार्थमेव चिन्तासत्श्रुत्यनुष्ठानं, देवमानुषसम्पदः । क्रमेणाङ्करसत्काण्डनालपुष्पसमा मताः ॥३ ॥ फलं प्रधानमेवाहुर्नानुषङ्गिकमित्यपि। पलालादिपरित्यागात्, कृषौ धान्याप्तिवबुधाः ॥४॥ अत एव च मन्यन्ते, तत्त्वभावितबुद्धयः। मोक्षमार्गक्रियामेकां, पर्यन्तफलदायिनीम् ॥ ५॥ इत्यादि” । आहयद्येवं न सामान्येनैवं पाठो युक्तो, भावनमस्कारवतस्तद्भावेन तत्साधनायोगात् , ___ "फलमित्यादिश्लोकः" फलं-साध्यं, किं तदित्याह-"प्रधानमेव" ज्येष्ठमेव, फलमिति पुनः सम्बध्यते, ततः प्रधानमेव फलं फलमाहुः, अवधारणफलमाह-"नानुषङ्गिकमित्यपि” नोपसर्जनभवमपीति, दृष्टान्तमाह-"पलालादि १ एतदीहगूचित्तवृत्तिमतः शुद्धं मार्जितं सद्भवति ॥ २ ०नैव प्र० . ११॥ Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600120
Book TitleLalitvistarakhya Chaityavandan Sutra Vrutti
Original Sutra AuthorHaribhadrasuri
AuthorMunichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy