________________
णामिति संदर्शनार्थमेवमुपन्यासोऽस्य सूत्रस्य, स्तोतव्यनिमित्तोपलब्धौ तन्निमित्ताद्यन्वेषणयोगादिति ||
प्रस्तावना । अथास्य व्याख्या-तल्लक्षणं च संहितादि, यथोक्तम्-“संहिता च पदं चैव, पदार्थः 18 पदविग्रहः । चालना प्रत्यवस्थानं, व्याख्या तन्त्रस्य षविधा ॥ १॥” इति, एतदङ्गानि तु जिज्ञासा
गुरुयोगो विधि इत्यादीनि, अत्राप्युक्तम-"जिज्ञासा गुरुयोगो विधिपरतो बोधपरिणतिः स्थैर्यमें । उ-8 तक्रियाल्पभवता, व्याख्याङ्गानीति समयविदः॥४॥” तत्र 'नमोऽस्त्वर्हद्भ्यः' इति संहिता, पदानि तु नमः अस्तु अर्हद्भ्यः, पदार्थस्तु 'नम' इति पूजार्थ, पूजा च द्रव्यभावसङ्कोचः, तत्र करशिरःपादादिसंन्यासो द्रव्यसङ्कोचः, भावसङ्कोचस्तु विशुद्धस्य मनसो नियोग इति, अस्त्विति भवतु, प्रार्थनाऽर्थोऽस्येति,
'इयं च चित्रेत्यादि, 'स्तोतव्यनिमित्तोपलब्धाविति स्तोतव्याः-स्तवाही अर्हन्तस्त एव निमित्तं-कर्मकारकत्वाद्धेतुः स्तवक्रियायास्तस्योपलब्धौ-ज्ञाने । 'तन्निमित्ताद्यन्वेषणयोगादिति' तस्य-स्तोतव्यरूपस्य निमित्तस्य अहल्लक्षणस्य |निमित्तं आदिकरत्वाद्यादिशब्दादुपयोगादिसङ्ग्रहः तस्य अन्वेषणात्-घटनादिति ।
शुद्धस्य प्र०
00000000000000000
0000000000000000
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org