SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ ललितवि० भयदानचक्षुर्दानमार्गदानशरणदानबोधिदानैः परार्थसिद्धेः, तदन्यैस्तु पञ्चभिः स्तोतव्यसम्पद एवायता |विशेषेणोपयोगसम्पत्, धर्मदत्वधर्मदेशकत्वधर्मनायकत्वधर्मसारथित्वधर्मवरचातुरन्तचक्रवर्त्तित्वे-18 भ्यस्तद्विशेषोपयोगात्, तदन्यद्वयेन तु स्तोतव्यसम्पद एव सकारणा स्वरूपसम्पत्, अप्रति-10 हतवरज्ञानदर्शनधरा व्यावृत्तच्छमानश्चार्हन्तो भगवन्त इति हेतोः, तदपरैश्चतुर्भिरात्मतुल्यपरफल-3 1 कर्तृत्वसम्पत्, जिनजापकत्वतीर्णतारकत्वबुद्धबोधकत्वमुक्तमोचकत्वानामेवंप्रकारत्वात्, तदन्यैस्तु त्रिभिः प्रधानगुणापरिक्षयप्रधानफलात्यभयसम्पदुक्ता, सर्वज्ञसर्वदर्शिनामेव शिवाचलादिस्थान-|| सम्प्राप्तौ जितभयत्वोपपत्तेः, _ 'साधारणासाधारणरूपेति' सर्वजीवैः साधारणमादिकरत्वं, मोक्षापेक्षया आदौ-भवे सर्वजीवानां जन्मादिकरणशी| लत्वात, तीर्थकरत्वस्वयंसम्बोधावसाधारणौ अर्हतामेव भवतः 'एते' इति अहेन्तो भगवन्तः। 'प्रधानगुणापरिक्षयप्रधानफलाप्त्यभयसम्पदुक्तेति' प्रधानगुणयोः सर्वज्ञत्वसर्वदर्शित्वयोः अपरिक्षयेण अव्यावृत्त्या प्रधानस्य शिवाचलादिस्थानस्य आप्तौ-लाभे 'अभयसम्पत्' जितभयत्वरूपा उक्तेति । ननु चैकस्वभावाधीनत्वादस्तुनः कथमनेकस्वभावाक्षेपिका स्तोत|व्यसम्पदादिका चित्रा सम्पदेकत्र ? यदि परमुपचारवृत्त्या स्यादित्याशङ्कयाह इयं च चित्रा सम्पत् अनन्तधात्मके वस्तुनि मुख्य मुख्यवृत्त्या स्तवप्रवृत्तिश्चैवं प्रेक्षापूर्वकारि-8 यभमा अभयसम्पत्' जितभयदि परमुपचारवृत्त्या स्थानमा मख्यवृत्त्या स्तवप्रथा O ॥८ ॥ Join Education International For Private Personel Use Only www.jainelibrary.org
SR No.600120
Book TitleLalitvistarakhya Chaityavandan Sutra Vrutti
Original Sutra AuthorHaribhadrasuri
AuthorMunichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy