SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ ललितवि० आलम्बनं न भवतीत्यपिशब्दार्थः। 'कुशकाशालम्बनमिति' कुशाश्च काशाश्च कुशकाशाः तेषामालम्बनं-आश्रयणमना- पं० युता लम्बनमेवापुष्टालम्बनत्वादिति, 'दर्शनीयं ततोऽस्याधिकत्वमिति' दर्शनीयं-दर्शयितव्यं, परेषां स्वयं वा द्रष्टव्यं, 'ततः तन्त्रान्तरस्थितेः 'अस्य' प्रकृततन्त्रस्य 'अधिकत्वं' अधिकभावः, कपादिशुद्धजीवादितत्त्वाभिधायकत्वात्, 'व्याप्तीतरविभाग' इति व्याप्तिश्च सर्वतन्त्रानुगमोऽस्य सर्बनयमतानुरोधित्वाद् इतरा चाव्याप्तिस्तत्रान्तराणामेकनयरूपत्वाच्यातीतरे तयोः विभागो-विशेषः, इह चेतराशब्दस्य पुंवद्भावो 'वृत्तिमात्रे सर्वादीनां पुंवद्भावः' इति वचनात् ॥ यतितव्यमुत्तमनिदर्शनेष्विति श्रेयोमार्गः । व्यवस्थितश्चायं महापुरुषाणां क्षीणप्रायकर्मणां विशुद्वाशयानां भवाबहुमानिनां अपुनर्बन्धकादीनामिति, अन्येषां पुनरिहानधिकार एव, शुद्धदेशनाऽनमहत्वात् , शुद्धदेशना हि क्षुद्रसत्त्वमृगयूथसंत्रासनसिंहनादः। ध्रुवस्तावदतो बुद्धिभेदस्तदनु सत्त्वले-18 शचलनं कल्पितफलाभावापत्या दीनता, खभ्यस्तमहामोहवृद्धिः, ततोऽधिकृतक्रियात्यागकारी संत्रासः _ 'उत्तमनिदर्शनेष्विति' आज्ञानुसारप्रवृत्तमहापुरुषदृष्टान्तेषु, अस्तु नामायं प्रवचनगाम्भीर्यनिरूपणौदिरुत्सर्गापवाद| स्वरूपपरिज्ञानहेतुः श्रेयोमार्गः, परं ज्वरहरतक्षकचूडारत्नालङ्कारोपदेशवदशक्यानुष्ठानो भविष्यतीत्याशङ्कयाह-'व्य स्थितश्चेत्यादि' व्यवस्थितश्च-प्रतिष्ठितश्च स्वयमेव, महापुरुषैः अपुनर्बन्धकादिभिरनुष्ठितत्वात् , 'ध्रुवेत्यादि' ध्रुवो-निश्चि ला १ अपुनर्बन्धकानां प्र०२ भावात्या प्र० ३ निरूपणादिभि० प्र० ४ परिज्ञा० प्र० ५ सर्वरोगापहृत्० प्र० 000000000000000 90000000000000 Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600120
Book TitleLalitvistarakhya Chaityavandan Sutra Vrutti
Original Sutra AuthorHaribhadrasuri
AuthorMunichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy