________________
अपि च-लाघवापादनेन शिष्टप्रवृत्तिनिरोधतस्तद्विघात एव, अपवादोऽपि सूत्रावाधया गुरुलाघवालो-1 लचनपरोऽधिकदोषनिवृत्त्या शुभः शुभानुबन्धी महासत्त्वासेवित उत्सर्गभेद एव, नतु सूत्रबाधया, गुरुलाघवचिन्ताऽभावेन हितमहितानुबन्ध्यसमंजसं, परमगुरुलाघवकारिक्षुद्रसत्त्वविजृम्भितमिति ॥
'अपिच' इति दूषणान्तरसमुच्चये, यदृच्छाप्रवृत्त्या सम्यक्चैत्यवन्दनविधेः 'लाघवापादनेन' लघुकरणेन 'शिष्टप्रवृत्तिनिरोधतः' पूज्यपूजारूपशिष्टाचारपरिहारात् 'तद्विघात एव' उपायान्तरादपि संभवन्त्यास्तथेष्टफलसिद्धेविष्कम्भ एव, यथोक्तम्-'प्रतिबध्नाति हि श्रेयः, पूज्यपूजाव्यतिक्रम' इति । आह-ननु गतानुगतिकरूपश्चैत्यवन्दनविधिरपवादस्तहि स्यादित्याशङ्कयाह-'अपवादोऽपीत्यादि' उत्सर्गभेद एवेति उक्तविशेषणोऽपवाद उत्सर्गस्थानापन्नत्वेनोत्सर्गफलहेतुरित्युत्सर्गविशेष एवेति ॥ एतदङ्गीकरणमप्यनात्मज्ञानां संसारसरिच्छ्रोतसि कुशकाशावलम्बनमिति परिभावनीयं सर्वथा, निरू-10 पणीयं प्रवचनगाम्भीर्य, विलोकनीया तन्त्रान्तरस्थितिः दर्शनीयं ततोऽस्याधिकत्वं, अपेक्षितव्यो । व्याप्तीतरविभागः॥ __ 'एतदङ्गीकरणमपीति' एतस्य-क्षुद्रसत्त्वविजृम्भितस्यापवादतयाऽङ्गीकरणमपि आदरणमपि, किं पुनरनङ्गीकरणं
१ भवन्त्याः प्र०२ विधे० प्र० ३ काशकुशालम्बनमिति पन्जिका
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org