________________
ललितवि०
॥५॥
000000000000004
00000
णमासादयति, उक्तं च 'धर्मानुष्ठानवैतथ्यात्प्रत्यपायो महान्भवेत् । रौद्रदुःखौघजनको, दुष्प्रयुक्ता| दिवौषधाद् ॥ १ ॥ इत्यादि' अतोऽनधिकारिप्रयोगे प्रयोक्तृकृतमेव तत्त्वतस्तदकल्याणमिति, लिङ्गैस्तदधिकारितामवेत्यैतदध्यापने प्रवर्त्तेत एवं हि कुर्वता आराधितं वचनं, बहुमतो लोकनाथः, परित्यक्ता लोकसंज्ञा, अङ्गीकृतं लोकोत्तरयानं, समासेविता धर्मचारितेति, अतोऽन्यथा विपर्यय | इत्यालोचनीयमेतदतिसूक्ष्माभोगेन, नहि वचनोक्तमेव पन्थानमुल्लङ्घ्यापरो हितायुपायः, न चानु|भवाभावे पुरुषमात्रप्रवृत्तेस्तथेष्टफलसिद्धिः ॥
कीदृशः ? 'लोकसंज्ञेति' गतानुगतिक लक्षणा लोकहेरिः, 'लोकोत्तरयानमिति' लोकोत्तरा प्रवृत्तिः, पुरुष| मात्रप्रवृत्तिरपि हितायुपायः स्यान्न वचनोक्त एव पन्था इत्याशङ्कयाह - 'नचानुभवेत्यादि' अयमभिप्रायः - प्राकू स्वयमेव | दृष्टफले कृष्यादौ तदुपायपूर्वकं आप्तोपदिष्टोपाय पूर्वकं चादृष्टफले निधानखननादौ कर्म्मणि प्रवृत्तस्य स्वाभिलषितफलसिद्धिरवश्यं भवति, नान्यथा, अतोऽतीन्द्रियफले चैत्यवन्दने फलं प्रति स्वानुभवाभावे पुरुषमात्रप्रवृत्त्याश्रयणान्न विवक्षितफलसिद्धिर्व्यभिचारा (र) सम्भवाद्, अतः शास्त्रोपदेशात्तत्र प्रवर्त्तितव्यमिति ॥
१ ततो प्र० २ ०कलोकलक्ष० प्र०
Jain Education International
For Private & Personal Use Only
पं० युता.
॥ ५ ॥
www.jainelibrary.org