SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ पं० युता. ललितविक भवतु नामैवं, तथापि कथमित्यमेषामुपन्यासनियम इत्याह-'क्रमोऽपी' त्यादि, ' नचायम्' इति, नच-नैव अयं-भावः- चैत्यवन्दनाविषयशुभपरिणामरूपः, संवेगांदिविधिप्रयोगहेतुरिति ॥ ॥४॥ लन चामुष्मिकविधावप्यनुचितकारिणोऽन्यत्रोचितवृत्तय इति, विषयभेदेन तदौचित्याभावाद, अप्रेशक्षापूर्वकारिविजृम्भितं हि तत् , तदेतेऽधिकारिणः परार्थप्रवृत्तर्लिङ्गतोऽवसेयाः, मा भूदनधिकारिप्रयोगे दोष इति । लिङ्गानि चैषां तत्कथाप्रीत्यादीनि, तद्यथा-तत्कथाप्रीतिः, निन्दाऽश्रवणम् ॥ 'न चामुष्मिकेत्यादि' नच-नैव चशब्द उचितवृत्तेर्विधिपूर्वकत्वभावनातूचनार्थः, 'आमुष्मिकविधौ' परलोकफले कृत्ये, किं पुनरैहिकविधावित्यपेरर्थः 'अनुचितकारिणो' विरुद्धवृत्तयः 'अन्यत्र' इहलोके 'उचितवृत्तयः' स्वकुलाधुचितपरिशुद्धसमाचारा भवन्ति, परलोकप्रधानस्यैवेहाप्यौचित्यप्रवृत्तः, तदुक्तम्-'परलोकविरुद्धानि, कुर्वाण दूरतस्त्यजेत् । आत्मानं योऽतिसंधत्ते, सोऽन्यस्मै स्यात्कथं हितः ?॥१॥" कुत एतदित्याह--'विषयभेदेन' भिन्नविषयतया, 'तदौचित्याभावात्' तयोः-इहलोकपरलोकयोः, औचित्यस्य-दृष्टादृष्टापायपरिहारप्रवृत्तिरूपस्य, (अ)भावात् , यदेव ह्यमुष्मिन् परिणामसुन्दरं कृत्यमिहापि तदेवेति विधिपरता, विधिपूर्वकमेवोचितवृत्तित्वमिति, प्रकारान्तरनिरसनायाह-'अप्रेक्षापूर्वकारि विजृम्भितं हि तत्' अप्रेक्षापूर्वकारिणो ह्येवं विजृम्भन्ते, यदुतैकत्रानुचितकारिणोऽप्यन्यत्रोचितकारिणो भवेयुरिति ।। 10 विषये प्र० २ संवेगादिविधि० ३ चैत्यबन्दनाऽऽवश्यकविहारदानपूजादिकेऽनुचितकारिणोऽप्यन्यत्र. ४ प्रवृत्तयः प्र०५ योऽभिसन्धत्ते प्र० GOOODOTOS हेतः ?॥१॥" कुत। तदुक्तम्-परलोका उचितवृत्तयः स्वाकफले कृत्ये, Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600120
Book TitleLalitvistarakhya Chaityavandan Sutra Vrutti
Original Sutra AuthorHaribhadrasuri
AuthorMunichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy