SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ 900005 10000 स्यात्, 'अर्थीत्यादि' अर्थी - धर्माधिकारी, प्रस्तावात्तदभिलाषातिरेकवान्, समर्थो - निरपेक्षतया धर्ममनुतिष्ठन्न कुतो - ऽपि तदनभिज्ञाद् बिभेति, शास्त्रेण - आगमेन 'अपर्युदस्तः' अप्रतिकुष्टः । | एतद्दहुमानिनो विधिपरा उचितवृत्तयश्च न हि विशिष्टकर्मक्षयमन्तरेणैवंभूता भवन्ति, क्रमोऽप्यमी|षामयमेव, न खलु तत्रत एतदबहुमानिनो विधिपरा नाम, भावसारत्वाद्विधिप्रयोगस्य, न चायं बहुमानाभावे इति ॥ सच एवंलक्षणो यस्त्रिवर्गरूपपुरुषार्थचिन्तायां धर्ममेव बहु मन्यते, इहलोकपरलोकयोर्विधिपरो ब्राह्मणादिस्ववर्णो| चितविशुद्धवृत्तिमांश्चेति, 'विधिपरा' इति, विधिः - इहलोक परलोकयोरविरुद्ध फलमनुष्ठानं स परः - प्रधानं येषां ते तथा 'उचितवृत्तय' इति, स्वकुलाद्युचितशुद्धजीवनोपाया इति, ननु ज्ञानावरणादिकर्म्मविशेषे उपहन्तरि सति सम्यक्चैत्यव - | न्दनलाभाभावात् तत्क्षयवानेवाधिकारी वाच्यः, किमेतद्बहुमानादिगवेषणायेत्याह - 'नहीत्यादि' 'न' नैव 'हि:' यस्माद्, 'विशिष्टकर्मक्षयं' विशिष्टस्य -- अन्तःकोटा कोट्यधिक स्थितेः कर्म्मणो - ज्ञानावरणादेः क्षयो - विनाशस्तमन्तरेण - विना 'इत्थं - भूता' एतद्बहुमानादिप्रकारमापन्ना 'भवन्ति' वर्त्तन्ते, तत एतद्बहुमानादिव्य जय कर्मविशेषक्षयवानेवाधिकारी, नापर इति । १० वेत्थंभूता इति पञ्जिका. २ तथा व्यवहारे प्रवर्त्तनं. ३ सततशुभ परिणामोत्पत्तिहननकर्तरि वर्त्तमाने. ४ अयमेव यथाविहिताऽनुष्ठानसम्पादनोऽर्होऽतः. Jain Education International For Private & Personal Use Only १७०००000000000000000 www.jainelibrary.org
SR No.600120
Book TitleLalitvistarakhya Chaityavandan Sutra Vrutti
Original Sutra AuthorHaribhadrasuri
AuthorMunichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy