SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ 900005 10000 स्यात्, 'अर्थीत्यादि' अर्थी - धर्माधिकारी, प्रस्तावात्तदभिलाषातिरेकवान्, समर्थो - निरपेक्षतया धर्ममनुतिष्ठन्न कुतो - ऽपि तदनभिज्ञाद् बिभेति, शास्त्रेण - आगमेन 'अपर्युदस्तः' अप्रतिकुष्टः । | एतद्दहुमानिनो विधिपरा उचितवृत्तयश्च न हि विशिष्टकर्मक्षयमन्तरेणैवंभूता भवन्ति, क्रमोऽप्यमी|षामयमेव, न खलु तत्रत एतदबहुमानिनो विधिपरा नाम, भावसारत्वाद्विधिप्रयोगस्य, न चायं बहुमानाभावे इति ॥ सच एवंलक्षणो यस्त्रिवर्गरूपपुरुषार्थचिन्तायां धर्ममेव बहु मन्यते, इहलोकपरलोकयोर्विधिपरो ब्राह्मणादिस्ववर्णो| चितविशुद्धवृत्तिमांश्चेति, 'विधिपरा' इति, विधिः - इहलोक परलोकयोरविरुद्ध फलमनुष्ठानं स परः - प्रधानं येषां ते तथा 'उचितवृत्तय' इति, स्वकुलाद्युचितशुद्धजीवनोपाया इति, ननु ज्ञानावरणादिकर्म्मविशेषे उपहन्तरि सति सम्यक्चैत्यव - | न्दनलाभाभावात् तत्क्षयवानेवाधिकारी वाच्यः, किमेतद्बहुमानादिगवेषणायेत्याह - 'नहीत्यादि' 'न' नैव 'हि:' यस्माद्, 'विशिष्टकर्मक्षयं' विशिष्टस्य -- अन्तःकोटा कोट्यधिक स्थितेः कर्म्मणो - ज्ञानावरणादेः क्षयो - विनाशस्तमन्तरेण - विना 'इत्थं - भूता' एतद्बहुमानादिप्रकारमापन्ना 'भवन्ति' वर्त्तन्ते, तत एतद्बहुमानादिव्य जय कर्मविशेषक्षयवानेवाधिकारी, नापर इति । १० वेत्थंभूता इति पञ्जिका. २ तथा व्यवहारे प्रवर्त्तनं. ३ सततशुभ परिणामोत्पत्तिहननकर्तरि वर्त्तमाने. ४ अयमेव यथाविहिताऽनुष्ठानसम्पादनोऽर्होऽतः. Jain Education International For Private & Personal Use Only १७०००000000000000000 www.jainelibrary.org
SR No.600120
Book TitleLalitvistarakhya Chaityavandan Sutra Vrutti
Original Sutra AuthorHaribhadrasuri
AuthorMunichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy