SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ ललितवि० ॥३॥ 0000000 900000001 यभावेन विवक्षितफलं चैत्यवन्दनं, परमकिञ्चित्करं तद्व्याख्यानमित्याशङ्कयाह — 'तत्सम्पादनेत्यादि' तत्सम्पादनार्थ-चैत्यवन्दन सम्यक्करण सम्पादनार्थ | | तथाहि-- प्रायोऽधिकृतसूत्रोक्तेनैव विधिनोपयुक्तस्याऽऽशंसादोषरहितस्य सम्यग्दृष्टेर्भक्तिमत एव | सम्यक्करणं, नान्यस्य, अनधिकारित्वाद्, अनधिकारिणः सर्वत्रैव कृत्ये सम्यक्करणाभावात्, श्रावणेऽपि तर्ह्यस्याधिकारिणो भृग्याः ? को वा किमाह ? एवमेवैतत्, न केवलं श्रावणे, किं तर्हि ? पाठेऽपि, अनधिकारिप्रयोगे प्रत्युतानर्थसम्भवात्, 'अहितं पथ्यमप्यातुरे' इति वचनप्रामाण्यात्, तथा 'अर्थी | समर्थः शास्त्रेणापर्युदस्तो धर्मेऽधिक्रियते' इति विद्वत्प्रवादः, धर्मश्चैतत्पाठादि, कारणे कार्योपचा रात् यद्येवमुच्यतां के पुनरस्याधिकारिण इति, उच्यते ॥ 'प्रायोऽधिकृतसूत्रोक्तेनैव विधिनेति' अधिकृतसूत्रं - चैत्यवन्दनसूत्रमेव, तत्र साक्षादनुक्तोऽपि तद्व्याख्यानोक्तो विधिस्तदुक्त इत्युपचर्यते, सूत्रार्थप्रपञ्चरूपत्वाद्व्याख्यानस्य, प्रायोग्रहणान्मार्गानुसारितीन्रक्षयोपशमवतः कस्यचिदन्यथापि १ चैत्यवन्दनविधेर्यत्सम्यक्करणत्त्वसम्पादनं ज्ञानरूपतया प्रापणं तदर्थं. २ सूत्रगर्भगतार्थविस्ताररूपत्वाद्वयाख्यानस्य. ३ सूत्रोक्तविधेरज्ञानेऽपि शुभभावोत्पत्तिः स्यात् ॥ Jain Education International For Private & Personal Use Only 900 पं० युता. ॥३॥ www.jainelibrary.org
SR No.600120
Book TitleLalitvistarakhya Chaityavandan Sutra Vrutti
Original Sutra AuthorHaribhadrasuri
AuthorMunichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy