SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ "ऐतिह्यं चैतदिति” सम्प्रदायश्चायं यदुत तृतीया स्तुतिः श्रुतस्येति ॥ इति श्रीमुनिचन्द्रसूरिविरचितायां ललित- पं० युता. ॥१०६॥ | विस्तरापञ्जिकायां श्रुतस्तवः समाप्तः॥ | पुनरनुष्ठानपरम्पराफलभूतेभ्यस्तथाभावेन तक्रियाप्रयोजकेभ्यश्च सिद्धेभ्यो नमस्करणायेदं| 1 पठति पठन्ति वा, "सिद्धाणं बुद्धाणं,पारगयाणं परंपरगयाणं । लोयग्गमुवगयाणं, नमो सया सव-16 सिद्धाणं ॥ १॥ अस्य व्याख्या-सितं ध्मातमेषामिति सिद्धाः निर्दग्धानेकभवकर्मेन्धना इत्यर्थः, तेभ्यो नम इति योगः, ते च सामान्यतः कर्मादिसिद्धा अपि भवन्ति, यथोक्तम्- "कम्मे || सिप्पे य विजा य, मंते जोगे य आगमे । अत्थ जत्ता अभिप्पाए, तवे कम्मक्खए इय ॥१॥" ॥ इत्यादि, अतः कर्मादिसिद्धव्यपोहायाह-"बुद्धेभ्यः” अज्ञाननिद्राप्रसुप्ते जगत्यपरोपदेशेन || जीवादिरूपं तत्त्वं बुद्धवन्तो बुद्धाः, सर्वज्ञसर्वदर्शिखभावबोधरूपा इत्यर्थः, एतेभ्यः, एते च संसारनिर्वाणोभयपरित्यागेन स्थितवन्तः कैश्चिदिष्यन्ते "न संसारे न निर्वाणे, स्थितो || भुवनभूतये । अचिन्त्यः सर्वलोकानां, चिन्तारत्नाधिको महान् ॥ १ ॥” इति वचनात् , , एतन्निरासायाह-"पारगतेभ्यः" पारं-पर्यन्तं संसारस्य प्रयोजनवातस्य वा गताः पारगताः, GOOGROOOOOOCTOR DOOGRESOOOOOOOOOO ॥१०६। Jan Education Intemanona For Private Personel Use Only www.jainelibrary.org
SR No.600120
Book TitleLalitvistarakhya Chaityavandan Sutra Vrutti
Original Sutra AuthorHaribhadrasuri
AuthorMunichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy