________________
ललितवि०
%
पं० युता.
॥१०॥
000000000000000000000
शालिबीजारोपणवच्छालिहेतुः, दृष्टा ह्येवं पौनःपुन्येन तद्वृद्धिः, एवमिहाप्यत इष्टवृद्धिरिति, एवं विवेकग्रहणमत्र जलम् , अतिगम्भीरोदार एष आशयः, ___ "शालिबीजारोपणवत्" शालिबीजस्य पुनः पुनः निक्षेपणमिव "शालिहेतुः" शालिफलनिमित्तं, एतदेव भावयति| "दृष्टा" उपलब्धा "हिः" यस्मादू , “एवं" श्रुतधर्मवृद्धिप्रार्थनान्यायेन पौनःपुन्येन शालिबीजारोपणस्य वृद्धिस्तद्वद्धिःशालिवृद्धिः, "एवं" शालिवृद्धिप्रकारेण "इहापि" श्रुतस्तवे "अतः" आशंसापौनःपुन्याद् “इष्टवृद्धिः" श्रुतवृद्धिरिति, अथ शालिबीजारोपणदृष्टान्ताक्षिप्तं सहकारिकारणं जलमपि प्रतिपादयन्नाह-"एवम्" अनन्तरोक्तप्रकारेण "विवेकनहणं" विवेकेन-सम्यगावधारणविचारेण ग्रहणं-स्वीकारः श्रुतस्य विवेकस्य वा ग्रहणं, तत्किमित्याह-"अत्र" श्रुतशालिवृद्धौ "जलम्" अम्भः, अथ विवेकमेव स्तुवन्नाह-"अतिगम्भीरोदारः" प्रभूतश्रुतावरणक्षयोपशमलभ्यत्वादत्यनुत्तान उदारश्च सकलसुखलाभसाधकत्वाद् “एष" विवेकरूप "आशयः" परिणामः, अत एव संवेगामृतास्वादनं, नाविज्ञातगुणे चिन्तामणौ यत्नः, न चान्यथाऽतोऽपि समीहितसिद्धिः, __“अत एव" विवेकादेव नतु सूत्रमात्रादपि “संवेगामृतास्वादनं" संवेगो-धर्माद्यनुरागो, यदुक्तम्-"तथ्ये धर्मे ध्वस्त|| हिंसाप्रबन्धे, देवे रागद्वेषमोहादिमुक्ते साधौ सर्वग्रन्थसंदर्भहीने, संवेगोऽसौ निश्चलो योऽनुरागः ॥१॥" स एवामृत-सुधा
१०गर्थविचारेण प्र०
000000000000000000६
| ॥१०३०
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org