SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ PEETTUGGாடு | विषयप्रतिबन्धः प्रार्थनारूपः, कुत इत्याह-"असङ्गफलसंवेदनाद्" असङ्गस्य-रागद्वेषमोहाद्यविषयीकृतस्य फलस्य आशंसनीयस्य संवेदनाद्-अनुभवाद् , अनीदृशफलालम्बनं हि प्रणिधानं प्रतिबन्धः परमपुरुषार्थलाभोपघातित्वात् , ननु कथमयं नियमो ? यदुतेदं प्रणिधानमनाशंसाभाववीजमित्याह| यथोदितश्रुतधर्मवृद्धेर्मोक्षः, सिद्धत्वेन, नेह फले व्यभिचारः, असङ्गेन चैतत्फलं संवेद्यते, एवं च सद्भावारोपणात्तवृद्धिः, शुभमेतदध्यवसानमत्यर्थ, | "यथोदितश्रुतधर्मवृद्धेः” सर्वज्ञोपज्ञश्रुतधर्मप्रकर्षात् “मोक्षः" अनाशंसारूपो यतो भवतीति गम्यते, अत्रापि कथमेकान्तः ? इत्याह-"सिद्धत्वेन" श्रुतधर्मवृद्धेर्मोक्षं प्रत्यवन्ध्यहेतुभावेन, इदमेव भावयति "न" नैव "इह" मोक्षलक्षणे, फले “व्यभिचारो” विसंवादः फलान्तरभावतो निष्फलतया वा श्रुतधर्मवृद्धेरिति, अस्यैवासङ्गत्वसिद्ध्यर्थमाह-"अस-1 | ड्रेन च” रागद्वेषमोहलक्षणसङ्गाभावेन च, “एतत्" मोक्षफलं “संवेद्यते" सर्वैरेव मुमुक्षुभिः प्रतीयत इति, इत्थं श्रुत-|| धर्मवृद्धेः फलसिद्धिमभिधाय अस्या एव हेतुसिद्धिमाह-"एवम्” उक्तप्रकारेण "चः" पुनरर्थे भिन्नक्रमश्च “सद्भावारो|पणात्" श्रुतवृद्धिप्रार्थनारूपशुद्धपरिणामस्याङ्गीकरणात् “तद्वद्भिश्च" श्रुतधर्मवृद्धिः पुनर्भवतीति गम्यते, ऐतद्भा| वनायैवाह-"शुभं" प्रशस्तं "एतत्" पुनः श्रुतधर्मवृद्ध्याशंसालक्षणं "अध्यवसानं” परिणामः, "अत्यर्थम्" अतीव, कीदृगित्याह १ तद्वृद्धिश्च पञ्जिका. २ ०वनयैवाह प्र० ल०१८ Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600120
Book TitleLalitvistarakhya Chaityavandan Sutra Vrutti
Original Sutra AuthorHaribhadrasuri
AuthorMunichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy