________________
300
$3000
| भवेच्चारित्रधर्म इति ॥ यतश्चैवमतः - "सिद्धे भो ! पयओ नमो जिणमए नन्दी सया संजमे, देवनाग| सुवण्णकिण्णरगणस्सन्भूअभावच्चिए। लोगो जत्थ पइडिओ जगमिणं तेलोकमच्चासुरं, धम्मो वड्ड| उ सासओ विजयओ धम्मुत्तरं वढउ ||४||" अस्य व्याख्या- सिद्धे - प्रतिष्ठिते प्रख्याते, तत्र सिद्धः फलाव्यभिचारेण प्रतिष्ठितः सकलनयव्याप्तेः प्रख्यातस्त्रिकोटी परिशुद्धत्वेन, भो इत्येतदतिशयिनामामन्त्रणं पश्यन्तु भवन्तः, प्रयतोऽहं यथाशक्त्येतावन्तं कालं प्रकर्षेण यतः, इत्थं परसाक्षिकं प्रयतो भूत्वा | पुनर्नमस्करोति, " नमो जिनमते” सुपां सुपो भवन्तीति चतुर्थ्यर्थे सप्तमी, नमो जिनमताय, तथा चास्मिन् सति जिनमते "नन्दिः " समृद्धिः "सदा,” सर्वकालं, क्व ? " संयमे" चारित्रे तथा चोक्तं“पढमं नाणं तओ दयेत्यादि”, किंभूते संयमे ? - देवनाग सुर्वर्णकिन्नरगणैः सद्भूतभावेनार्चिते, तथा च | संयमवन्तः अर्च्यन्त एव देवादिभिः किंभूते जिनमते ? - लोकनं लोकः ज्ञानमेव स यत्र प्रतिष्ठितः, तथा जगदिदं ज्ञेयतया, केचिन्मनुष्यलोकमेव जगन्मन्यन्त इत्यत आह - " त्रैलोक्यं मनुष्यासुरं”
१० सुपर्ण प्र०.
Jain Education International
For Private & Personal Use Only
1000009
99999900900
www.jainelibrary.org