________________
ललितवि०
॥१०१॥
| सालसुहावहस्स । को देवदानवनरिंदगणञ्चिअसस्स, धम्मस्स सारमुवलब्भ करे पमायं ॥३॥" अस्य | व्याख्या - जातिः - उत्पत्तिः जरा-वयोहानिलक्षणा मरणं - प्राणनाशः शोकः - मानसो दुःखविशेषः, जातिश्च | ॐ जरा च मरणं च शोकश्चेति द्वन्द्वः, जातिजरामरणशोकान् प्रणाशयति- अपनयति जातिजरामरण| शोकप्रणाशनस्तस्य, तथा च श्रुतधम्र्मोक्तानुष्ठानाज्जात्यादयः प्रणश्यन्त्येव, अनेन चास्यानर्थप्रतिघा - तित्वमाह, कल्यम् - आरोग्यं कल्यमणतीति कल्याणं, कल्यं शब्दयतीत्यर्थः, पुष्कलं - सम्पूर्ण न च तदल्पं, | किन्तु ? विशालं विस्तीर्णं सुखं प्रतीतं, कल्याणं पुष्कलं विशालं सुखमावहति - प्रापयति कल्याण| पुष्कलविशालसुखावहः तस्य, तथा च श्रुतधम्र्मोक्तानुष्ठानादुक्तलक्षणमपवर्गसुखमवाप्यत एव, अनेन | चास्य विशिष्टार्थप्रसाधकत्वमाह, कः प्राणी देवदानवनरेन्द्रगणार्चितस्य श्रुतधर्म्मस्य सारं - सामर्थ्यं | उपलभ्य - दृष्ट्वा विज्ञाय कुर्यात्प्रमादं सेवेत ?, सचेतसश्चारित्रधर्मे प्रमादः कर्त्तुं न युक्त इति हृदयं, | आह-सुरगणनरेन्द्रमहितस्येत्युक्तं पुनर्देवदानवनरेन्द्रगणार्चितस्येति किमर्थम् ?, उच्यते, प्रस्तुत| भावान्वयफलतन्निगमनत्वाददोषः, तस्यैवंगुणस्य धर्मस्य सारं - सामर्थ्यमुपलभ्य कः सकर्णः प्रमादी
33000ভड
Jain Education International
For Private & Personal Use Only
30000000000000000000
पं० युता.
॥१०१॥
www.jainelibrary.org