SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ ஓாராகாடுமுடிசாருகாருமுருருது "एवं च" वचनपौरुषेयत्वे "व्यक्त्यपेक्षया” एकैकं सर्वदर्शिनमपेक्ष्य, "नानादिशुद्धवादापत्तिः" न कश्चिदेकोऽनादिशुद्धः सर्वदर्शी वक्ता आपन्नः, कुत इत्याह-"सर्वस्य” सर्वदर्शिनः “तथा" पूर्वोक्तप्रकारेण "तत्पूर्वकत्वात्" वचनपूर्व-10 कत्वात् , “प्रवाहतस्तु” परम्परामपेक्ष्य इष्यत एवानादिशुद्धः, प्रवाहस्यानादित्वादिति, एवं न ममापि तत्त्वतोऽपौरुषेयं वचनं यत् त्वया प्राक् प्रसञ्जितमिति, प्रपञ्चितमेतदन्यत्र-सर्वज्ञसिद्ध्यादौ नेह प्रयासः प्रयत्नः, निकाचितं तिमिरं तस्य पटलं-वृन्दं तमस्तिमिरपटलं तद्विध्वंसयति-विनाशयतीति तमस्तिमिरपटलविध्वंसनः तस्य,तथा चाज्ञाननिरासेनैवास्य प्रवृत्तिः,तथा "सुरगणनरेन्द्रमहितस्य” तथा ह्यागमम-16 हिमां (मान) कुर्वन्त्येव सुरादयः, तथा सीमां-मर्यादां धारयतीति सीमाधरः तस्येति कर्मणिषष्ठी, तं वन्दे, तस्य वा यन्माहात्म्यं तद् वन्दे, अथवा तस्य वन्द इति तद्वन्दनं करोमि, तथा ह्यागमवन्त । एव मर्यादां धारयन्ति, किंभूतस्य ?-प्रकर्षेण स्फोटितं मोहजालं-मिथ्यात्वादि येन स तथोच्यते तस्य, तथा चास्मिन्सति विवेकिनो मोहजालं विलयमुपयाति इति ॥ इत्थं श्रुतमभिवन्द्याधुना तस्यैव गुणोपदर्शनद्वारेणाप्रमादगोचरतां प्रतिपादयन्नाह-"जाईजरामरणसोगपणासणस्स, कल्लाणपुक्खलवि-| १ नेदम् प्र०. २ त्येव इत्थं प्र०. 000000000000000000 Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600120
Book TitleLalitvistarakhya Chaityavandan Sutra Vrutti
Original Sutra AuthorHaribhadrasuri
AuthorMunichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy