________________
ललितवि०
॥२॥
धिगमः परम्परं तु द्वयोरपि निःश्रेयसलाभः, अभिधानाभिधेयलक्षणो व्याख्यानव्याख्येयलक्षणश्च सम्बन्धी बोद्धव्यः,
पं० युता. 'इति' मङ्गलादिनिरूपणासमाप्त्यर्थः॥४॥
अत्राह-चिन्त्यमत्र साफल्यं, चैत्यवन्दनस्यैव निष्फलत्वात इति, अत्रोच्यते 'अत्र' मङ्गलादिनिरूपणायां सत्यां 'आह' प्रेरयति, 'चिन्त्य' नास्तीत्यभिप्रायः, 'अत्र' चैत्यवन्दनव्याख्यानपरिश्रमे, साफल्यं' सफलभावः, कुत इत्याह-'चैत्यवन्दनस्यैव' निष्फलत्वात्' अत्रैवशब्दोऽप्यर्थे, ततः पुरुषोपयोगिफलानु-10 पलब्धेश्चैत्यबन्दनमपि निष्फलमेव, किं पुनस्तद्विषयतया व्याख्यानपरिश्रमः ?, ततो यनिष्फलं तशारम्भणीयं, यथा कण्टकशाखामर्दनं, तथाच चैत्यवन्दनव्याख्यानमिति व्यापकानुपलब्धिः 'इतिः' परवक्तव्यतासमाप्त्यर्थः । अत्र || 'उच्यते' प्रतिविधीयते ॥ निष्फलत्वादित्यसिद्धं, प्रकृष्टशुभाध्यवसायनिबन्धनत्वेन ज्ञानावरणीयादिलक्षणकर्मक्षयादिफलत्वाद्, उक्तं च-"चैत्यवन्दनतः सम्यग् , शुभो भावः प्रजायते । तस्मात्कर्मक्षयः सर्व, ततः कल्याणमश्नुते ॥१॥ इत्यादि ॥" 'निष्फलत्वादित्यसिद्धं' इतिः-हेतुस्वरूपमात्रोपदर्शनार्थः, ततो यन्निष्फलत्वं हेतुतयोपन्यस्त, तद् असिद्धं-असिद्धा
१ व्याख्यानपरिश्रमसफलताश्रुताया(तौ). २० नुपलब्धेः प्र०
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org