________________
ये सत्त्वाः कर्मवशतो, मत्तोऽपि जडबुद्धयः। तेषां हिताय गदतः, सफलो मे परिश्रमः॥४॥इति
यावत्' यत्परिमाणं 'तथापि' कृत्स्नव्याख्यानाशक्तिलक्षणो यः प्रकारस्तस्मिन् सत्यपि, 'विज्ञातं,' अवबुद्धम् , Tal'अर्थजातम्' अभिधेयप्रकारस्तत्समूहो वा, प्रक्रमाच्चैत्यवन्दनसूत्रस्य 'मया' इत्यात्मनो निर्देशे 'गुरोः व्याख्यातुः 'सकाशात्'
संनिधिमाश्रित्य, कीदृशेनेत्याह-'अल्पमतिना' अल्पा तुच्छा गुरुमत्यपेक्षया मतिः बुद्धिर्यस्य स तथा तेन तावदेव'विज्ञातप्रमाणमेव, अविज्ञातस्य वक्तुमशक्यत्वात् , 'ब्रवीमि' वच्मि 'अहं' कर्तेति । अल्पमतिनेत्यनेन चेदमाह-कदाचिदधिकधीगुरोः शृण्वस्ततोऽधिकमपीदमवैति-'ध्यामलादपि दीपात्तु, निर्मलः स्यात्स्वहेतुत' इत्युदाहरणात् , तत्समधीश्च | तत्सम, अहं त्वल्पमतित्वाद्गुरुनिरूपितादपि हीनमेवार्थजातं विज्ञातवानिति, तदेव ब्रवीमि ॥३॥ 'ये' इति अनिरूपि|तनामजात्यादिभेदाः 'सत्त्वाः' प्राणिनः 'कर्मवशतो' ज्ञानावरणाद्यदृष्टपारतच्यात् 'मत्तोऽपि' मत्सकाशादपि, नान्यः प्रायो मत्तो जडबुद्धिरस्तीतिसम्भावनार्थोऽपिशब्दः 'जडबुद्धयः' स्थूलबुद्धयो, विचित्रफलं हि कर्म, ततः किं न सम्भ-1 वतीति, 'तेषां' जडबुद्धीनां 'हिताय' पथ्याय 'गदतो' विवृण्वतः 'सफलो' बोधलक्षणतंदुपकारफलवान् , अधिकसदृशबुद्धिकयोस्तु प्रमोदमाध्यस्थ्यगोचरतयाऽतोऽनुपकारात् 'मे' मम 'परिश्रमो' व्याख्यानरूपः । इह चेष्टदेवतानमस्कारो मङ्गलं, चैत्यवन्दनार्थोऽभिधेयः, तस्यैव व्याख्यायमानत्वात् , कर्तुस्तथाविधसत्त्वानुग्रहोऽनन्तरं प्रयोजनं, श्रोतुश्च तदर्था
D®®®®®®®छ लोगो
ॐॐॐ0000000000000
१ लक्षणतः प्र०
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org