SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ छ ललितवि० Soॐॐॐॐॐॐॐॐॐॐॐॐ | जिनप्रधानं 'चैत्यवन्दनसूत्रस्य' प्रतीतस्य 'व्याख्या विवरणम् इयं' अनन्तरमेव वक्ष्यमाणा 'अभिधीयते' प्रोच्यत नापं० युता. इति ॥१॥ सम्प्रत्याचार्यः प्रतिज्ञातव्याख्याकृत्स्नपक्षाक्षमत्वमात्मन्याविष्कुर्वन्नाहअनन्तगमपर्याय, सर्वमेव जिनागमे । सूत्रं यतोऽस्य कात्स्न्येन, व्याख्यां कः कर्तृमीश्वरः ? ॥ २॥ अनन्ता-अनन्तनामकसङ्ख्याविशेषानुगता गमा-अर्थमार्गाः पर्यायाश्चोदात्तादयोऽनुवृत्तिरूपाः पररूपाभवनस्वभावाश्च व्यावृत्तिरूपा यत्र तत्तथा, 'सर्वमेव' अङ्गगतादि निरवशेष 'जिनागमे' अर्हच्छासने 'सूत्रं' शब्दसन्दर्भरूपं 'यतो' यस्माद्धेतोस्तत इति गम्यते 'अस्य सूत्रस्य 'कारूयेन' सामस्त्येन 'व्याख्या विवरणं 'कः' 'कर्तुं विधातुम् 'ईश्वरः' समर्थः ? | अयं हि किंशब्दोऽस्ति क्षेपे, स किं सखा ? योऽभिद्रुह्यति, अस्ति प्रश्ने, किं ते प्रियं करोमि, अस्ति निवारणे, किं ते रुदि| तेन, अस्त्यपलापे, किं ते धारयामि, अस्त्यनुनये, किं ते अहं करोमि, अस्त्यव ज्ञाने, कस्त्वामुल्लापयंते, इह त्वपलापे, नास्त्यसौ यः सूत्रस्य कात्स्न्येन-व्याख्यां कर्तुं समर्थ इत्यभिप्रायोऽन्यत्र चतुर्दशपूर्वधरेभ्यो, यथोक्तं-'शक्नोति कर्तुं श्रुतकेवलिभ्यो, न व्यासतोऽन्यो हि कदाचनापी' ति, जिनागमसूत्रान्तर्गतं च चैत्यवन्दनसूत्रमतोऽशक्यं कृत्स्नव्याख्यानमिति ॥ २॥ इत्थं कृत्स्नव्याख्यापक्षाशक्तावितरपक्षाश्रयणमपि सफलतया वक्तुकामः श्लोकद्वयमाह-- ॥१ ॥ यावत्तथापि विज्ञातमर्थजातं मया गुरोः। सकाशादल्पमतिना, तावदेव ब्रवीम्यहम् ॥३॥ १ अतीतानागतादि. २ ०लापयति ३ ०शक्यकृत्स्न. ॐॐॐॐॐॐॐॐॐ Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600120
Book TitleLalitvistarakhya Chaityavandan Sutra Vrutti
Original Sutra AuthorHaribhadrasuri
AuthorMunichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy