SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ Jain Education I एवमिति - पौरुषेयत्वे, सर्वज्ञ एवास्य - वचनस्य वक्ता सदा-सर्वकालं नान्यः - तद्व्यतिरिक्तः, कुत इत्याह — तस्य - वचनस्यासाधुत्वप्रसङ्गाद् - अप्रामाण्यप्राप्तेः, वक्तृप्रामाण्याद्धि वचनप्रामाण्यमित्यस्माद्धेतोः सोऽवचनपूर्वक एव कश्चिन्नीतितः, ननु बीजाङ्कुरवत् इत्यनेन प्रत्युक्तं, परिभावनीयं तु यत्नतः, तथाऽर्थ| ज्ञानशब्दरूपत्वादधिकृत वचनस्य शब्दवचनापेक्षया नावचनपूर्वकत्वेऽपि कस्यचिद्दोषः, मरुदेव्यादीनां | तथाश्रवणात्, वचनार्थप्रतिपत्तित एव तेषामपि तथात्वसिद्धेस्तत्त्वतस्तत्पूर्वकत्वमिति, भवति च विशिष्ट - | क्षयोपशमादितो मार्गानुसारिबुद्धेर्वचनमन्तरेणापि तदर्थप्रतिपत्तिः, क्वचित्तथादर्शनात्, संवादसिद्धेः, “सः " सर्वज्ञः" अवचनपूर्वक एव कश्चित् "चिरतरकालातीतो "नीतितः” अन्यथाऽपौरुषेयं वचनं स्यादिति नीतिमाश्रित्याभ्युपगन्तव्य इति गम्यते, अत्रोत्तरं - ननु वितर्कय बीजाङ्कुरव देतदित्यनेन ग्रन्थेन “प्रत्युक्तं ” निराकृतमेतत्परिभावनीयं | तु यत्नतः, तत्र सम्यक्परिभाविते पुनरित्यमुपन्यासायोगात् न च जैनानां क्वचिदेकान्त इत्यपि प्रतिपादयन्नाह - तथेति पक्षान्तरसमुच्चये, अर्थज्ञानशब्दरूपत्वाद् - अर्थः- सामायिकपरिणामादिर्ज्ञानं तद्गतैव प्रतीतिः, शब्दो - वाचकध्वनिः। तद्रूपत्वात् तत्स्वभावत्वाद् अधिकृतवचनस्य - प्रकृतागमस्य ततः “शब्दवचनापेक्षया” शब्दरूपं वचनमपेक्ष्य 'न' नैवावचनपूर्वकत्वेऽपि कस्यचित्सर्वदर्शिनो दोषः - अनादिशुद्धवादापत्तिलक्षणः, समर्थकमाह - "मरुदेव्यादीनां " प्रथमजिनजननीप्रभृ१ ० प्तेः पूर्वक्तृ० प्र०. २ क्वचित्तथादर्शनात्संवाद सिद्धेः. For Private & Personal Use Only 9009000999999999999००००० www.jainelibrary.org
SR No.600120
Book TitleLalitvistarakhya Chaityavandan Sutra Vrutti
Original Sutra AuthorHaribhadrasuri
AuthorMunichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy