________________
Jain Education I
एवमिति - पौरुषेयत्वे, सर्वज्ञ एवास्य - वचनस्य वक्ता सदा-सर्वकालं नान्यः - तद्व्यतिरिक्तः, कुत इत्याह — तस्य - वचनस्यासाधुत्वप्रसङ्गाद् - अप्रामाण्यप्राप्तेः, वक्तृप्रामाण्याद्धि वचनप्रामाण्यमित्यस्माद्धेतोः
सोऽवचनपूर्वक एव कश्चिन्नीतितः, ननु बीजाङ्कुरवत् इत्यनेन प्रत्युक्तं, परिभावनीयं तु यत्नतः, तथाऽर्थ| ज्ञानशब्दरूपत्वादधिकृत वचनस्य शब्दवचनापेक्षया नावचनपूर्वकत्वेऽपि कस्यचिद्दोषः, मरुदेव्यादीनां | तथाश्रवणात्, वचनार्थप्रतिपत्तित एव तेषामपि तथात्वसिद्धेस्तत्त्वतस्तत्पूर्वकत्वमिति, भवति च विशिष्ट - | क्षयोपशमादितो मार्गानुसारिबुद्धेर्वचनमन्तरेणापि तदर्थप्रतिपत्तिः, क्वचित्तथादर्शनात्, संवादसिद्धेः, “सः " सर्वज्ञः" अवचनपूर्वक एव कश्चित् "चिरतरकालातीतो "नीतितः” अन्यथाऽपौरुषेयं वचनं स्यादिति नीतिमाश्रित्याभ्युपगन्तव्य इति गम्यते, अत्रोत्तरं - ननु वितर्कय बीजाङ्कुरव देतदित्यनेन ग्रन्थेन “प्रत्युक्तं ” निराकृतमेतत्परिभावनीयं | तु यत्नतः, तत्र सम्यक्परिभाविते पुनरित्यमुपन्यासायोगात् न च जैनानां क्वचिदेकान्त इत्यपि प्रतिपादयन्नाह - तथेति पक्षान्तरसमुच्चये, अर्थज्ञानशब्दरूपत्वाद् - अर्थः- सामायिकपरिणामादिर्ज्ञानं तद्गतैव प्रतीतिः, शब्दो - वाचकध्वनिः। तद्रूपत्वात् तत्स्वभावत्वाद् अधिकृतवचनस्य - प्रकृतागमस्य ततः “शब्दवचनापेक्षया” शब्दरूपं वचनमपेक्ष्य 'न' नैवावचनपूर्वकत्वेऽपि कस्यचित्सर्वदर्शिनो दोषः - अनादिशुद्धवादापत्तिलक्षणः, समर्थकमाह - "मरुदेव्यादीनां " प्रथमजिनजननीप्रभृ१ ० प्तेः पूर्वक्तृ० प्र०. २ क्वचित्तथादर्शनात्संवाद सिद्धेः.
For Private & Personal Use Only
9009000999999999999०००००
www.jainelibrary.org