SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ Th 5 hữu ललितवि० ज्ञानचारित्राणि मोक्षमार्ग इत्यागमविरोधि, कुत इत्याह-"न्यायतः” “सदकारणवन्नित्य" मिति नित्यलक्षणन्यायाद् पं० युता. अनादिशुद्धः-परपरिकल्पितसदाशिवादिवत् कश्चिदर्हन्निति वादप्रसङ्गादिति, "इतिः" परवक्तव्यतासमाप्त्यर्थः, परपक्षमाशयोत्तरमाह-"न" नैव, एतत्परोक्तम्, अत्र हेतुमाह-"अनादित्वेऽपि" अविद्यमानादिभावेऽपि वचनस्य "पुरुषव्यापाराभावे" वचनप्रवर्तकताल्वादिव्यापाराभावे "वचनानुपपत्त्या" उक्तनिरुक्तवचनायोगेन तत्तथात्वासिद्धेः, पक्षान्तरमपि निरस्यन्नाह| न चावचनपूर्वकत्वं कस्यचित् , तदादित्वेन तदनादित्वविरोधादिति, बीजाङ्कुरवदेतत् , ततश्चा-1 नादित्वेऽपि प्रवाहतः सर्वज्ञाभूतभवनवद्वक्तृव्यापारपूर्वकत्वमेवाखिलवचनस्येति, नन्वेवं सर्वज्ञ 8/ 18 एवास्य वक्ता सदा नान्यः, तदसाधुत्वप्रसङ्गादिति, ___ "नच" नैवावचनपूर्वकत्वं परोपन्यस्तं “कस्यचिद्" भगवतः, कुत इत्याह-"तदादित्वेन" वचनपूर्वकत्वेन "तदनादित्वविरोधात्" तस्य-भगवतो अनादित्वस्य-अवचनपूर्वकत्वाऽऽक्षिप्तस्य विरोधात्-निराकरणादिति, परमार्थमाह-0 "बीजाङ्कुरवदेतद्" यथा बीजादङ्कुरोऽङ्कराद्वीजं तथा वचनादहन्नहतश्च वचनं प्रवर्तत इति, प्रकृतसिद्धिमाह-"ततश्च"| ॥ ९९ ॥ बीजाकुरदृष्टान्ताच्च, अनादित्वेऽपि वचनस्य "प्रवाहतः" परम्परामपेक्ष्य "सर्वज्ञाभूतभवनवत्" सर्वज्ञस्य-ऋषभादिव्यक्ति-16 रूपस्य प्रागभूतस्य भवनमिव वक्तव्यापारपूर्वकत्वमेवाखिलवचनस्य लौकिकादिभेदभिन्नस्येति । नन्विति-पराक्षमायां, thi 0000000 ết Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600120
Book TitleLalitvistarakhya Chaityavandan Sutra Vrutti
Original Sutra AuthorHaribhadrasuri
AuthorMunichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy