________________
000000000
" पुनस्तत्कल्पना वैयर्थ्यात् ” अतीन्द्रियार्थदर्शिनमभ्युपगम्य पुनः - भूयस्तत्कल्पना वैयर्थ्याद्-अपौरुषेयवचनकल्पनावैयर्थ्यात् सा ह्यतीन्द्रियार्थदर्शिनमनभ्युपगच्छतामेव सफला, यथोक्तम्- अतीन्द्रियाणामर्थाणां, साक्षाद्रष्टा न विद्यते । वचनेन हि नित्येन यः पश्यति स पश्यति ॥ १ ॥ " असारं” परिफल्गु "एतद्" यदुतापौरुषेयं वचनमिति । " स्यादेतत् " परस्य वक्तव्यं, "भवतोऽपि” पौरुषेयवचनवादिनंः "तत्त्वतः" परमार्थतो न केवलं मम “तत्त्वतः” ऐदम्पर्यशुद्ध्या अपौरुषेयमेत्र वचनं न पौरुषेयमपि, अत्र हेतुमाह – “सर्वस्य " ऋषभादेः "सर्वदर्शिनः” सर्वज्ञस्य " तत्पूर्वकत्वाद्” वचनपूर्वकत्वाद्, एतदपि कुत इत्याह- “तप्पुडिया" वचनपूर्विका " अरहया" अर्हत्ता इति वचनाद्, अथ स्याद्-अनादिर हत्सन्तानस्ततः कथं न पौरुषेयं वचनमित्याशङ्कयाह — " तदना दित्वेऽपि तेषाम् अर्हतामनादित्वेऽपि " तदनादित्वतः” तस्य वचनस्या• | नादिभावात् " तथात्वसिद्धेः” अपौरुषेयत्वसिद्धेः, अस्यैव विपर्ययवाधकं पक्षान्तरमाह
अवचनपूर्वकत्वं चैकस्य तदपि तन्त्रविरोधि, न्यायतोऽनादिशुद्धवादापत्तेरिति, न, अनादित्वेऽपि पुरुषव्यापाराभावे वचनानुपपत्त्या तथात्वासिद्धेः,
“अवचनपूर्वकत्वं चैकस्य” यदि हि अपौरुषेयं वचनं नेष्यते तदाऽवचनपूर्वः कश्चिदेक आदौ वचनप्रवर्त्तकोऽर्हन्नभ्यु | पगन्तव्य इतिभावः, एवमपि तर्हि अस्तु इत्याशङ्क्य पर एवाह - " तदपि " अवचनपूर्वकत्वं “तन्त्रविरोधि” “सम्यग्दर्शन
१ नः न केवलं मम “तत्त्वतः " ऐदम्पर्यशुध्ध्या.
Jain Education International
For Private & Personal Use Only
1000000001
www.jainelibrary.org