SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ 000000000 " पुनस्तत्कल्पना वैयर्थ्यात् ” अतीन्द्रियार्थदर्शिनमभ्युपगम्य पुनः - भूयस्तत्कल्पना वैयर्थ्याद्-अपौरुषेयवचनकल्पनावैयर्थ्यात् सा ह्यतीन्द्रियार्थदर्शिनमनभ्युपगच्छतामेव सफला, यथोक्तम्- अतीन्द्रियाणामर्थाणां, साक्षाद्रष्टा न विद्यते । वचनेन हि नित्येन यः पश्यति स पश्यति ॥ १ ॥ " असारं” परिफल्गु "एतद्" यदुतापौरुषेयं वचनमिति । " स्यादेतत् " परस्य वक्तव्यं, "भवतोऽपि” पौरुषेयवचनवादिनंः "तत्त्वतः" परमार्थतो न केवलं मम “तत्त्वतः” ऐदम्पर्यशुद्ध्या अपौरुषेयमेत्र वचनं न पौरुषेयमपि, अत्र हेतुमाह – “सर्वस्य " ऋषभादेः "सर्वदर्शिनः” सर्वज्ञस्य " तत्पूर्वकत्वाद्” वचनपूर्वकत्वाद्, एतदपि कुत इत्याह- “तप्पुडिया" वचनपूर्विका " अरहया" अर्हत्ता इति वचनाद्, अथ स्याद्-अनादिर हत्सन्तानस्ततः कथं न पौरुषेयं वचनमित्याशङ्कयाह — " तदना दित्वेऽपि तेषाम् अर्हतामनादित्वेऽपि " तदनादित्वतः” तस्य वचनस्या• | नादिभावात् " तथात्वसिद्धेः” अपौरुषेयत्वसिद्धेः, अस्यैव विपर्ययवाधकं पक्षान्तरमाह अवचनपूर्वकत्वं चैकस्य तदपि तन्त्रविरोधि, न्यायतोऽनादिशुद्धवादापत्तेरिति, न, अनादित्वेऽपि पुरुषव्यापाराभावे वचनानुपपत्त्या तथात्वासिद्धेः, “अवचनपूर्वकत्वं चैकस्य” यदि हि अपौरुषेयं वचनं नेष्यते तदाऽवचनपूर्वः कश्चिदेक आदौ वचनप्रवर्त्तकोऽर्हन्नभ्यु | पगन्तव्य इतिभावः, एवमपि तर्हि अस्तु इत्याशङ्क्य पर एवाह - " तदपि " अवचनपूर्वकत्वं “तन्त्रविरोधि” “सम्यग्दर्शन १ नः न केवलं मम “तत्त्वतः " ऐदम्पर्यशुध्ध्या. Jain Education International For Private & Personal Use Only 1000000001 www.jainelibrary.org
SR No.600120
Book TitleLalitvistarakhya Chaityavandan Sutra Vrutti
Original Sutra AuthorHaribhadrasuri
AuthorMunichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy