SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ 30000 नेति, यदि निदानमलमनेन सूत्रप्रतिषिद्धत्वात्, न चेत्सार्थकमनर्थकं वा ?, यद्याद्यः पक्षस्तेषां | रागादिमत्त्वप्रसङ्गः, प्रार्थनाप्रवीणे प्राणिनि तथादानात्, अथ चरमः तत आरोग्यादिदानविकला | एते इति जानानस्यापि प्रार्थनायां मृषावादप्रसङ्ग इति, अत्रोच्यते, न निदानमेतत्, तल्लक्षणायोगात्, द्वेषाभिष्वङ्गमोहगर्भं हि तत्, तथा तन्त्रप्रसिद्धत्वात् “न निदानेत्यादि” न नैव निदानं - नितरां दायते-लूयते सम्यग्दर्शनप्रपञ्चबहल मूलजालो ज्ञानादिविषय विशुद्धविनयविधिसमुद्धरस्कन्धबन्धो विहितावदातदानादिभेदप्रभेदशाखोपशाखाखचितो निरतिशयसुरनरभवप्रभव सुख सम्पत्तिप्रसू| नाकीर्णोऽनभ्यणकृतनिखिलव्यसनव्याकुल शिवालयशर्मफलोल्वणो धर्मकल्पतरुरनेक सुरयद्याशंसनपरिणामपरशुनेति निदानं, “एतद्” आरोग्यबोधिलाभादिप्रार्थनं, कुत इत्याह- “तल्लक्षणायोगात् " निदानलक्षणाघटनात्, निदानलक्षणमेव भावयन्नाह - " द्वेषाभिष्वङ्गमोहगर्भ हि तत्" द्वेषो - मत्सरः अभिष्वङ्गो - विषयानुग्रहो मोहः - अज्ञानं ततस्ते द्वेषाभिष्वङ्गमोहा गर्भाः - अन्तरङ्गकारणं यस्य तत्तथा हिः - यस्मात्तन्निदानं कुत इत्याह - " तथा " द्वेषादिगर्भतया "तन्त्रप्रसिद्ध| त्वात्" निदानस्यागमे रूढत्वात्, रागदोषगर्भयोर्निदानयोः सम्भूत्यग्निशर्मादिषु प्रसिद्धत्वेन तलक्षणस्य सुबोधत्वात्, निर्देशमनादृत्य मोहगर्भनिदानलक्षणमाह १ व्यसन० प्र०. Jain Education International For Private & Personal Use Only 999999009000000000000 www.jainelibrary.org
SR No.600120
Book TitleLalitvistarakhya Chaityavandan Sutra Vrutti
Original Sutra AuthorHaribhadrasuri
AuthorMunichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy