________________
ललितवि०
॥ ९२ ॥
0000000000
मिति, अथवा बद्धं रजः निकाचितं मलः, अथवैर्यापथं रजः साम्परायिकं मलमिति, यतंश्चैवंभूता अत एव प्रक्षीणजरामरणाः कारणाभावादित्यर्थः, तत्र जरा - वयोहानिलक्षणा मरणं - प्राणत्यागलक्षणं प्रक्षीणे जरामरणे येषां ते तथाविधाः, चतुर्विंशतिरपि, अपिशब्दादन्येऽपि, जिनवराः - श्रुता| दिजिनप्रधानाः, ते च सामान्य केवलिनोऽपि भवन्ति अत आह - " तीर्थकरा” इत्येतत्समानं पूर्वेण | मे मम किं ? प्रसीदन्तु - प्रसादपरा भवन्तु, आह— किमेषा प्रार्थना अथ नेति, यदि प्रार्थना न सुन्दरैषाऽऽशंसारूपत्वात्, अथ न, उपन्यासोऽस्या अप्रयोजन इतरो वा ?, अप्रयोजनश्चेदचारु वन्दनसूत्रं, निरर्थकोपन्यासयुक्तत्वात्, अथ सप्रयोजनः, कथमयथार्थतया तत्सिद्धिरिति, अत्रोच्य - ते, न प्रार्थनैषा, तलक्षणानुपपत्तेः, तदप्रसादाक्षेपिकैषा, तथा लोकप्रसिद्धत्वात्, अप्रसन्नं प्रति प्रसाददर्शनात्, अन्यथा तदयोगात्, भाव्यप्रसादविनिवृत्त्यर्थं चे, उक्तादेव हेतोरिति, उभयथाऽपि तदवीतरागता, अत एव स्तवैधर्म्मव्यतिक्रमः, अर्थापत्त्याऽऽक्रोशात् अनिरूपिताभिधानद्वारेण, न खल्वयं
१ यत एवैवं० प्र०, २ वा प्र०. ३ सूत्रध० प्र०.
Jain Education International
For Private & Personal Use Only
010020006+0000000000006
पं० युता.
॥ ९२ ॥
www.jainelibrary.org