SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ ल०१६ Jain Education Inter 90096 990099 विनाशि तृष्णाजलाभिषिक्तं, मुञ्चति जन्माङ्कुरं जन्तोः ॥ १ ॥ तथा - दग्धे बीजे यथाऽत्यन्तं, प्रादुर्भ| वति नाङ्कुरः । कर्म्मबीजे तथा दग्धे, न रोहति भवाङ्कुरः ॥ २ ॥ इत्यादि, आह - यद्येवं जिना | नित्येतावदेवास्तु लोकस्योद्योतकरानित्याद्यतिरिच्यते, अत्रोच्यते, इह प्रवचने सामान्यतो विशिष्ट - | श्रुतधरादयोऽपि जिना एवोच्यन्ते, तद्यथा श्रुतजिनाः अवधिजिनाः मनःपर्यायजिनाः छद्मस्थवीतरागाश्च तन्मा भूत्तेष्वेवं सम्प्रत्यय इति तद्व्युदासार्थं लोकस्योद्योतकरानित्याद्यप्यदुष्टमिति, अपर - | स्त्वाह- अर्हत इति न वाच्यं, न ह्यनन्तरोदितस्वरूपा अर्हयतिरेकेणापरे भवन्तीति, अत्रोच्यते, अर्हतामेव विशेष्यत्वान्न दोष इति । आह-यद्येवं हन्त तर्ह्यर्हत इत्येतावदेवास्तु लोकस्योद्योतकरानित्यादि पुनरपार्थकं, न, तस्य नामाद्यनेकभेदत्वात् भावार्हत्सङ्ग्रहार्थत्वादिति, अपरस्त्वाह- केवलिन इति न वाच्यं यथोदाहृततत्स्वरूपाणां अर्हतां केवलित्वे अव्यभिचारित्वात् सति च व्यभिचार - सम्भवे विशेषणोपादानसाफल्यात्, तथाच सम्भवे व्यभिचारस्यें विशेषणमर्थवद्भवति, यथा १०ष्वेवं प्र० २ यथोदितस्वरू० प्र० ३ ० लित्वाव्य० प्र० ४ ० चारे च वि० प्र०. For Private & Personal Use Only 996090 w.jainelibrary.org
SR No.600120
Book TitleLalitvistarakhya Chaityavandan Sutra Vrutti
Original Sutra AuthorHaribhadrasuri
AuthorMunichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy