SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ नित्यत्र विज्ञानाद्वैतव्युदासेनोद्योत्योद्योतकयोर्भेदसंदर्शनार्थं भेदेनोपन्यासः, लोक्यत इति लोकः, लोक्यते प्रमाणेन दृश्यत इतिभावः, अयं चेह तावत्पञ्चास्तिकायात्मको गृह्यते, तस्य लोकस्य किम् ?18 उद्योतकरणशीला उद्योतकरास्तान्, केवलालोकेन तत्पूर्वकवचनदीपेन वा सर्वलोकप्रकाशकरणशी-18 लानित्यर्थः, तथा दुर्गतौ प्रपतन्तमात्मानं धारयतीति धर्मः, उक्तं च-“दुर्गतिप्रसृताञ्जीवान् , ] यस्माद्धारयते ततः। धत्ते चैतान् शुभे स्थाने, तस्माद्धर्म इति स्मृतः॥१॥ इत्यादि" तथा तीर्यतेऽनेनेति तीर्थ, धर्म एव धर्मप्रधानं वा तीर्थं धर्मतीर्थ, तत्करणशीला धर्मतीर्थकरास्तान् , तथा रागादि जेतारो जिनास्तान् , तथाऽशोकाद्यष्टप्रातिहार्यादिरूपां पूजामर्हन्तीत्यर्हन्तस्तानर्हतः, “कीर्त्तयिष्यामि। का इति स्वनामभिः स्तोष्ये इत्यर्थः, "चतुर्विंशतिमिति” सङ्ख्या, अपिशब्दो भावतस्तदन्यसमुच्चयार्थ का इति, केवलज्ञानमेषां विद्यत इति केवलिनस्तान् केवलिनः । अत्राह-लोकस्योद्योतकरानित्येताव-II ॥ देव साधु, धर्मतीर्थकरानिति न वाच्यं, गतार्थत्वात् , तथाहि-ये लोकस्योद्योतकरास्ते धर्मतीर्थक-1| रा एवेति, अत्रोच्यते, इह लोकैकदेशेऽपि ग्रामैकदेशे ग्रामवल्लोकशब्दप्रवृत्तेः मा भूत्तदुद्योतकरेष्ववधि-19 १ नेदम् प्र० G880000 @ Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600120
Book TitleLalitvistarakhya Chaityavandan Sutra Vrutti
Original Sutra AuthorHaribhadrasuri
AuthorMunichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy