________________
ध्यासमधिकृत्य व्युत्सृजामि, नमस्कारपाठं यावत्प्रलम्बभुजो निरुद्धवाक्प्रसरःप्रशस्तध्यानानुगतस्तिकाठामीति, ततः कायोत्सर्ग करोतीति।जघन्योऽपि तावदष्टोच्छ्वासमानः।इह च प्रमादमदिरामदापहते
चेतसो यथावस्थितं भगवद्वचनमनालोच्य तथाविधजनासेवनमेव प्रमाणयन्तः पूर्वापरविरुद्धमित्थ-81 मभिदधति-उत्सूत्रमेतत् , साध्वादिलोकेनानाचरितत्वात् , एतच्चायुक्तं, अधिकृतकायोत्सर्गसूत्रस्यैवार्थान्तराभावात , उक्तार्थतायां चोक्ताविरोधात, अथ भवत्वयमर्थः कायोत्सर्गकरणे न पुनरयं स इति, किमर्थमुच्चारणमिति वाच्यं, वन्दनार्थमिति चेत् , न, अतदर्थत्वात् , अतदर्थोच्चारणे ||१|| चातिप्रसङ्गात्, ___उक्तार्थेत्यादि" उक्तो-व्याख्यातः कायोत्सर्गलक्षणोऽर्थः-अभिधेयं यस्य प्रकृतदण्डकस्य तद्भावस्तत्ता तस्यां "च." पुनरर्थे “उक्ताविरोधात्" अष्टोच्छासमानकायोत्सर्गाविरोधादू "अथेति” पराकूतसूचनार्थः "भवतु" प्रवर्त्ततामयं नियतप्रमाणलक्षणे वन्दनाद्यर्थकायोत्सर्गकरणेऽभ्युपगम्यमाने, एवं तर्हि किमत्र क्षुण्णमिति आह-न पुनः न त्वयं दण्डकार्थ कायोत्सर्गः “इतिः" परवक्तव्यतासमाप्त्यर्थः ॥
१ जघन्यतोऽति प्र० २ ०मदापहृतचे० प्र०
1000000000000000000000
00000000000000000000
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org