________________
1000004605066966000000
2
वना, सर्वथा कायोत्सर्गापवादप्रकारा इत्यर्थः तैः - आकारैर्विद्यमानैरपि न भग्नोऽभन्नः भग्नः -स|र्वथा नाशितः, न विराधितोऽविराधितः विराधितो - देशभग्नोऽभिधीयते भूयात् 'मे' मम कायोत्सर्गः । तत्रानेन सहजास्तथा अल्पेतरनिमित्ता आगन्तवो नियमभविनश्चाल्पाः बाह्यनिबन्धना बाह्याश्चातिचारजातय इत्युक्तं भवति, उच्छ्वासनिःश्वासग्रहणात्सहजाः, सचित्त देहप्रतिबद्धत्वात् कासितक्षुतजृम्भितग्रहणात्स्वल्पनिमित्ता आगन्तवः, स्वल्पपवनक्षोभादेस्तद्भावात् उद्गारवातनिसर्गभ्रमिपित्तमू|च्छाग्रहणात्पुनर्बहुनिमित्ता आगन्तव एव महाजीर्णादेस्तदुपपत्तेः, सूक्ष्माङ्गखेलदृष्टिसञ्चारग्रहणाच्च नियमभाविनोऽल्पाः, पुरुषमात्रे सम्भवात् एवमाद्युपलक्षितग्रहणाच्च बाह्यनिबन्धना बाह्यास्तद्वारेण प्रसूतेरिति, उपाधिशुद्धं परलोकानुष्ठानं निःश्रेयस निबन्धनमिति ज्ञापनार्थममीषामिहोपन्यासः, उक्तं चागमे - "वयभंगे गुरुदोसो, थेवस्सवि पालणा गुणकरी उ । गुरुलाघवं च णेयं, धम्मंमि अओ उ आगारा ॥ १ ॥” इति एतेनार्हचैत्यवन्दनायोद्यतस्योच्छ्वासादिसापेक्षत्वमशोभनम्, अभक्तेः, न भक्तिनिर्भरस्य क्वचिदपेक्षा युज्यत इत्येतदपि प्रत्युक्तं, उक्तवदभक्त्ययोगात्, तथाहि - का खल्वत्रा
१० मसंभा० प्र०
Jain Education International
For Private & Personal Use Only
139030099999999999999005
www.jainelibrary.org