________________
10111100
90600066
कषायादिकटुकत्वनिरोधतः शममाधुर्यापादनसाम्येन चेतस एवमुपन्यास इति एतदनुष्ठानमेव चैवमिहोपायः तथा तथा सद्भावशोधनेनेति परिभावनीयं, उक्तं च
“कषायादिकटुकत्वनिरोधतः” कपायाः - क्रोधादयः आदिशब्दादिन्द्रियविकारादिग्रहस्त एव कटुकत्वं कटुकभावस्तस्य | निरोधादात्मनि, किमित्याह - " शममाधुर्यापादनसाम्येन" शमः – उपशमः स एव माधुर्य - मधुरभावः प्रीणन हेतुत्वात् | तस्यापादनं विधानं तेन तस्य वा साम्यं सादृश्यं तेन "चेतसो" मनसः " एवम्” इक्ष्वाद्युपमानोपमेयतयोपन्यास आद|रादीनाम् "इतिः” परिसमाप्तौ, उपायवत इति प्रागुक्तम् अत उपायमेव दर्शयति- " एतदनुष्ठानमेव च" प्रकृतकायोत्सर्गविधानमेव न पुनरन्यत् "चः " समुच्चये "एवम्” इति सामान्येनादरादियुक्तम् “इहेति" शर्करादिप्रतिमश्रद्धादिभवने "उपायो" हेतुः, कुत इत्याह- " तथा तथा" तत्तत्प्रकारेण “सद्भावशोधनेन” शुद्धपरिणामनिर्मलीकरणेन “ इति” एतत् "परिभावनीयं" अन्वयव्यतिरेकाभ्यामालोचनीयमेतद् । इदमपि परमतेन संवादयन्नाह — उक्तं च
परैरपि - "आदर करणे प्रीतिरविघ्नः सम्पदागमः । जिज्ञासा तज्ज्ञसेवा च सदनुष्ठानलक्षणम् ॥ १ ॥ | अतोऽभिलषितार्थातिस्तत्तद्भावविशुद्धितः । यथेक्षोः शर्कराप्तिः स्यात्क्रमात्सद्धेतुयोगतः ॥ २ ॥ || इत्यादि” अप्रेक्षावतस्तु यदृच्छाप्रवृत्तेः नटादिकल्पस्य गुणद्वेषिणो मृषावाद एव, अनर्थयोगात्, तत्परितोषस्तु तदन्यजनाधःकारी मिथ्यात्वग्रहविकारः, यथोक्तमन्यैः – “दण्डीखण्डनिवसनं, भस्मा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org