SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ पं० युता. ललितवि०16 इति गम्यते "आदरादि" वक्ष्यमाणमेव "इति" अतः श्रद्धादिकारणत्वाल्लिङ्गमिति, ततः किं सिद्धमित्याह-"अतः" श्रद्धादिकारणत्वात् “तदादरादिभावे" तत्र-कायोत्सगर्गे आदरादेः लिङ्गस्य भावे-सत्तायाम् “अनाभोगवतोऽपि" चल-10 चित्ततया प्रकृतस्थानवर्णाधुपयोगविरहेऽपि किंपुनराभोगे? इत्यपिशब्दार्थः, "एते" श्रद्धादयः कार्याविनाभावित्वात | कस्यचित् कारणस्य यथा प्रदीपस्य प्रकाशेन वृक्षस्य वा च्छायया, इतिर्वाक्यसमाप्तौ ॥ इक्षुरसगुडखण्डशर्करोपमाश्चित्तधर्मा इत्यन्यैरप्यभिधानात् , इक्षुकल्पं च तदादरादीति भवत्यतः क्रमेणोपायवतः शर्करादिप्रति श्रद्धादीति. । अतो मन्दतया श्रद्धादीनामनुपलक्षणे अपि आदरादिभावे सूत्रमुच्चारयतोऽपि न प्रेक्षावत्ताक्षतिः, परमतेनापि श्रद्धादीनां मन्दतीवादित्वं साधयन्नाह-"इक्षुरसगुडखण्डशर्करोपमाः" इक्ष्वादिभिः-पञ्चभिर्जनप्रतीतैरुपमासादृश्यं येषां ते तथा "चित्तधर्माः" मनःपरिणामा “इति” एतस्यार्थस्य “अन्यैरपि” तन्त्रान्तरीयैः, किं पुनरस्माभिः ? "अभिधानात्" भणनात् , प्रकृतयोरेवोपमानोपमेययोर्योजनामाह-"इक्षुकल्पं च" इक्षुसदृशं च "त" आदरादि' तस्मिन्-कायोत्सर्गे आदरः-उपादेयभावः आदिशब्दात्करणे प्रीत्यादि “इति” अस्मात्कारणादू "भवति” सम्पद्यते | |"अतः” इक्षुकल्पादादरादेः “क्रमेण" प्रकर्षपरिपाट्या "उपायवतः” तद्धेतुयुक्तस्य शर्करा-सिता आदिशब्दात्पश्चानुपूर्व्या खण्डादिग्रहः तत्सम प्रकृतसूत्रोपात्तं श्रद्धामेधादिगुणपञ्चकम् “इतिः” परिसमाप्तौ । आह-किमिति दृष्टान्तान्तरव्युदासेनेवाधुपमोपन्यास इत्याशझ्याह 00000000000000000000 00000000000000 Jain Education intahaldi For Private & Personel Use Only www.jainelibrary.org
SR No.600120
Book TitleLalitvistarakhya Chaityavandan Sutra Vrutti
Original Sutra AuthorHaribhadrasuri
AuthorMunichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy