SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ १००००० तन्त्रज्ञाः, किन्तु न श्रद्धादिविकलः प्रेक्षावानेवमभिधत्ते, तस्यालोचितकारित्वात्, “प्रतिपत्तिमिति” प्रतिपत्तिः — कायोत्सर्गारम्भरूपा तां “क्रियाकालनिष्ठाकालयोः कथञ्चिदभेदादिति” कथञ्चित्-नि| श्चयनयवृत्त्या स हि क्रियमाणं क्रियाकालप्राप्तं कृतमेव - निष्ठितमेव मन्यते, अन्यथा क्रियोपरमकाले क्रियानारम्भकाल इवानिष्ठितप्रसङ्गात् उभयत्र क्रियाभावाविशेषात्, कृतं पुनः क्रियमाणमुपरतक्रियं वा स्यादिति, यदुक्तं - " तेणेह कज्जमाणं, ॐ नियमेण कथं कयं च भयणिज्जं । किञ्चिदिह कज्जमाणं, उवरयकिरियं व होज्जाहि ॥ १ ॥” व्यवहारनयस्त्वन्यत् | क्रियमाणमन्यच्च कृतमिति मन्यते, यदाह - "नारम्भे च्चिय दीसइ, न सिवादद्धाऍ दीसइ तयन्ते । जम्हा घडाइकज्जं, न कज्जमाणं कथं तम्हा ॥ १ ॥ ततोऽत्र निश्चयनयवृत्त्या व्युत्त्रष्टुमारब्धकायस्तद्देशापेक्षया व्युत्सृष्ट एव द्रष्टव्य इति, ननु कदाचिच्छ्रद्धादिविकलः प्रेक्षावानप्येवमभिदधद्द्दश्यते इत्याशङ्कयाह मन्दतीत्रादिभेदाश्चैते, तथादरादिलिङ्गा इति, नातद्वत आदरादीति, अतस्तदादरादिभावेऽना| भोगवतोऽप्येत इति । “मन्देत्यादि” मन्दो - मृदुस्तीत्रः - प्रकृष्टः, आदिशब्दात्तदुभयमध्यवर्त्ती मध्यमः त एव भेदा - विशेषा येषां ते तथा “चः” समुच्चये “एते” श्रद्धादयः, किंविशिष्टा इत्याह-- “ तथा” तेन प्रकारेण ये आदरादयो वक्ष्यमाणास्त एव लिङ्गं - गमकं येषां ते तथा, “इतिः” वाक्यसमाप्तौ, ननु कथमेषां लिङ्गत्वं सिद्धमित्याह - “न” नैव "अतद्वतः" अश्रद्धादिमतो यत Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600120
Book TitleLalitvistarakhya Chaityavandan Sutra Vrutti
Original Sutra AuthorHaribhadrasuri
AuthorMunichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy