________________
ललितवि०
॥ ८२ ॥
1000
30000000
3
| णावह इति परिभावनीयं स्वयमित्थम् एतदुच्चारणं त्वेवमेवोपधाशुद्धं सदेनुष्ठानं भवतीति एतद्वानेव | चास्याधिकारीति ज्ञापनार्थं, वर्द्धमानया - वृद्धिं गच्छन्त्या नावस्थितया प्रतिपदोपस्थाय्येतत्, श्रद्धया वर्द्धमानया एवं मेधयेत्यादि, लाभक्रमादुपन्यासः श्रद्धादीनां श्रद्धायां सत्यां मेधा तद्भावे धृतिः ततो धारणा तदन्वनुप्रेक्षा, वृद्धिरप्यनेनैव क्रमेण, एवं तिष्ठामि कायोत्सर्गमित्यनेन प्रतिपत्तिं दर्शयति,
“अविच्युत्यादिभेदवतीति” अविच्युतिस्मृतिवासनाभेदवती, “श्रवणपाठप्रतिपत्तीच्छाप्रवृत्त्यादिरूपेति" श्रवणं-धर्मशास्त्राकर्णनं, पाठः- तत्सूत्रगतः प्रतिपत्तिः – सम्यक् तदर्थप्रतीतिः इच्छा - शास्त्रोक्तानुष्ठानविषया चिन्ता प्रवृत्तिः| तदनुष्ठानमादिशब्दाद्विप्रजयसिद्धिविनियोगा दृश्याः, तत्र विघ्नजयो - जघन्यमध्यमोत्कृष्टप्रत्यूहाभिभवः सिद्धिः - अनुष्ठेयार्थनिष्पत्तिः विनियोगः- तस्या यथायोगं व्यापारणं ततस्ते रूपं यस्याः सा तथा ॥
प्राक् " करोमि " करिष्यामि इति क्रियाभिमुख्यमुक्तं, साम्प्रतं त्वासन्नतरत्वाक्रियाकालनिष्ठाकालयोः कथञ्चिदभेदात्तिष्ठाम्येवाहं, अनेनाभ्युपगमपूर्वं श्रद्धादिसमन्वितं च सदनुष्ठानमिति दर्शयति । | आह— श्रद्धादिविकलस्यैवमभिधानं मृषावादः को वा किमाहेति, सत्यम्, इत्थमेवैतदिति
१ अनुष्ठानं प्र० ।
Jain Education International
For Private & Personal Use Only
উত
पं० युता.
॥ ८२ ॥
www.jainelibrary.org