________________
"00000000000000000000
वस्त्वविस्मृतिः, इयं चेह ज्ञानावरणीयकर्मक्षयोपशमसमुत्था अविच्युत्यादिभेदवती प्रस्तुतवस्त्वानुपूर्वीगोचरा चित्तपरिणतिः, जात्यमुक्ताफलमालाप्रोतकदृष्टान्तेन तस्य यथा तथोपयो-10 गदाढर्यात्, अविक्षिप्तस्य सतो यथार्ह विधिवदेतत्प्रोतनेन गुणवती निष्पद्यते अधिकृतमाला, एवमेतद्दलात् स्थानादियोगप्रवृत्तस्य यथोक्तनीत्यैव निष्पद्यते योगगुणमाला, पुष्टिनिबन्धत्वादिति । एवम् 'अनुप्रेक्षया' न प्रवृत्तिमात्रतया, अनुप्रेक्षा नाम तत्वार्थानुचिन्ता, 27 इयमप्यत्र ज्ञानावरणीयकर्मक्षयोपशमसमुद्भवोऽनुभूतार्थाभ्यासभेदः परमसंवेगहेतुस्तदायवि-16 धायी उत्तरोत्तरविशेषसम्प्रत्ययाकारः केवलालोकोन्मुखश्चित्तधर्मः, यथा रत्नशोधकोऽनलः | रत्नमभि सम्प्राप्तः रत्नमलं दग्ध्वा शुद्धिमापादयति तथा अनुप्रेक्षानलोऽप्यात्मरत्नमुपसंप्राप्तः कर्ममलं | ॐ दग्ध्वा कैवल्यमापादयति, तथा तत्स्वभावत्वादिति । एतानि श्रद्धादीन्यपूर्वकरणाख्यमहासमाधिबी-12 | जानि, तत्परिपाकातिशयतस्तत्सिद्धेः, परिपाचना त्वेषां कुतर्कप्रभवमिथ्याविकल्पव्यपोहतः श्रवण-181 पाठप्रतिपत्तीच्छाप्रवृत्त्यादिरूपा, अतिशयस्त्वस्यास्तथा स्थैर्यसिद्धिलक्षणः प्रधानसत्त्वार्थहेतुरपूर्वकर
१ प्रज्ञात प्र०।
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org