________________
जीवादितत्त्वार्थानुसारी समारोपविघातकृत् कर्मफलसम्बन्धास्तित्वादिसम्प्रत्ययाकारश्चित्तकालुष्या-81
पनायी धर्मः, यथोदकप्रसादको मणिः सरसि प्रक्षिप्तः पङ्कादिकालुष्यमपनीयाच्छतामापादयति, 1 एवं श्रद्धामणिरपि चित्तसरस्युपपन्नः सर्वं चित्तकालुष्यमपनीय भगवदर्हत्प्रणीतमार्ग सम्यग्भावय-16
तीति, एवं मेधया-न जडत्वेन, मेधा ग्रन्थग्रहणपटुः परिणामः, ज्ञानावरणीयकर्मक्षयोपशमजः चि. |त्तधर्म इति भावः, अयमपीह सद्भन्थप्रवृत्तिसारः पापश्रुतावज्ञाकारी गुरुविनयादिविधिवल्लभ्यो, की
महाँस्तदुपायेन परिणामः। ___ "श्रद्धासमारोपेत्यादि" समारोपविघातकृत-समारोपो नामासतः स्वभावान्तरस्य मिथ्यात्वमोहोदयात्तथ्ये वस्तुन्यध्यारोपणं काचकामलाद्युपघातात् द्विचन्द्रादिविज्ञानेष्विवेति, तद्विघातकृत्-तद्विनाशकारी "कर्मफलसम्बन्धास्तित्व-|| (आदि) सम्प्रत्ययाकार इति" कर्म-शुभाशुभलक्षणं फलं चतत्कार्य तथाविधमेव तयोः सम्बन्ध-आनन्तर्येण कार्यकारण|भावलक्षणो वास्तवः संयोगो न तु सुगतसुतपरिकल्पितसन्तानव्यवहाराश्रय इवोपचरितो, यथोक्तं तैः-"यस्मिन्नेव हिं सन्ताने, आहिता कर्मवासना । फलं तत्रैव सन्धत्ते, काप्पासे रक्तता यथा ॥१॥" तस्यास्तित्वं-सद्भावः, आदिशब्दाद् । १०स्युत्पन्नः । २ प्रणीतमार्गे प० । ३ ०तदुपादेयप० प्र० ।
000000000000000000000
0000000000000
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org