________________
0000000000000000
ध्यवसायः, कथमित्याह-"औचित्यप्रवृत्तिसारत्वेन" निजावस्थाया आनुरूप्येण या प्रवृत्तिः-चेष्टा तत्प्रधानत्वेन, औचित्यमेव भावयन्नाह-"उचितौ च" योग्यौ च "आरम्भिणः" तत एव पृथिव्याद्यारम्भवतः"एतौ" पूजासत्कारी, कुत इत्याह"सदारम्भरूपत्वात्" सन्-सुन्दरो जिनविषयतया आरम्भः-पृथिव्याधुपमर्दस्तद्रूपत्वाद्, आरम्भविशेषेऽपि कथमनयोः। सदारम्भत्वमित्याशङ्कयाह
औचित्याज्ञाऽमृतयोगात् , असदारम्भनिवृत्तेः, अन्यथा तदयोगादतिप्रसङ्गादिति, तथाहि-द्रव्यस्तव || एवैतौ, स च भावस्तवाङ्गमिष्टः, ___“आज्ञामृतयोगाद्” आज्ञैव-"जिनभवनं जिनबिम्ब" मित्याद्याप्तोपदेशरूपाऽमृतम्-अजरामरभावकारित्वात् तेन || | योगाद्, आज्ञापि किंनिबन्धनमित्थमित्याशङ्ख्याह-“असदारम्भनिवृत्तेः” असत इन्द्रियार्थविषयतया असुन्दरस्यारम्भस्य ततो वा जिनपूजादिकाले निवृत्तेः, ननु तन्निवृत्तिरन्यथापि भविष्यतीत्याशयाह-"अन्यथा" आज्ञामृतयुक्ती पूजा| सत्कारों विमुच्य “तदयोगाद्" असुन्दरारम्भनिवृत्तेरयोगाद्, विपक्षे बाधामाह-"अतिप्रसङ्गात्" प्रकारान्तरेणाप्यसदारम्भनिवृत्त्यभ्युपगमे द्यूतरमणान्दोलनादावपि तत्प्राप्त्याऽतिप्रसङ्गादिति, "इतिः" वाक्यसमाप्तौ, औचित्यमेव पुनविशेषतो भावयन्नाह तथाहि-द्रव्यस्तवः “एतौ" पूजासत्कारी, ततः किमित्याह-"सच" द्रव्यस्तवो “भावस्तवाङ्गं" शुद्धसाधुभावनिबन्धनम् “इष्टः" अभिमतः, कुत इत्याह
१ आज्ञामृत० प्र०२ प्रशमरतो.
000000000000004
ल०१४
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org