SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ ललितविला यमेतत्" साधोव्यस्तवकारणं देशनाद्वारेण, तथाहि-किल काचित्स्त्री प्रियपुत्रं रमणीयरूपमुपरचय्य रमणाय मन्दिरस्य पं० युता बहिर्विससर्ज, स चातिचपलतया अविवेकतया च इत इतः पर्यटन्नवटप्रायमतिविषमतटमेक गर्तमाविवेश, महान्तरे ॥ ७८ ॥ च प्रत्यपायसम्भावनया चकितचेता माता तमानेतुं तं देशमाजगाम, ददर्श च गर्लान्तर्वतिनं निजसून, तमनु च प्रचलितमनाकलितकोपप्रशममञ्जनपुञ्जकालकायमुद्घटितातिविकटस्फटाटोपं पन्नगं,ततोऽसौ गुरुलाघवालोचने चतुरा नूनमतः | पन्नगादस्य महानपायो भवितेति विचिन्त्य सत्वरप्रसारितकरा गोत् पुत्रमाचकर्ष, यथाऽसौ स्तोकोत्कीर्णशरीरत्वक्तया सपीडेऽपि तत्र न दोषवती, परिशुद्धभावत्वात् , तथा सर्वथा त्यक्तसर्वसावद्योऽपि साधुरुपायान्तरतो महतः सावद्यान्तरानिवृत्तिमपश्यन् गृहिणां द्रव्यस्तवमादिशन्नपि न दोषवानिति । का तद्धर्मस्य तथाखभावत्वात् , जिनपूजनसत्कारयोः करणलालसः खल्वायो देशविरतिपरिणामः || औचित्यप्रवृत्तिसारत्वेन, उचितौ चारम्भिण एतौ, सदारम्भरूपत्वात् , | "तद्धर्मेत्यादि" तद्धर्मस्य-श्रावकधर्मस्य "तथास्वभावत्वात्" जिनपूजासत्कारयोराकाङ्कातिरेकात् असन्तोषस्वभाव|त्वात् , एतदेव भावयति-"जिनपूजासत्कारयोः" उक्तरूपयोः “करणलालस एव" विधानलम्पट एव, खलुशब्दस्यैवकारार्थत्वात् , यः सचित्ताऽऽरैम्भवर्जाभिधानाष्टमप्रतिमाभ्यासात् प्राक्कालभावी “देशविरतिपरिणामः" श्रावका१ कृतयोरपि एतयोर्न संतोष इतिखरूपात् २ सचित्तवर्जा-प्र०॥ 0000000000000000 0000000000000000000 in Education internanna For Private & Personel Use Only www.jainelibrary.org
SR No.600120
Book TitleLalitvistarakhya Chaityavandan Sutra Vrutti
Original Sutra AuthorHaribhadrasuri
AuthorMunichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy