SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ 000000000000000000 सदुपदेश-कर्त्तव्या जिनपूजा,न खलु वित्तस्यान्यच्छुभतरं स्थानमितिवचनसन्दर्भेण, तत्कारणमेतत्, अनवयं च तद,दोषान्तरनिवृत्तिद्वारेण,अयमत्र प्रयोजकोशः, तथाभावतःप्रवृत्तेः,उपायान्तराभावात, ननु यावज्जीवमुज्झितसर्वसावद्यस्य साधोः कथं सावधप्रकृतेः द्रव्यस्तवस्योपदेशेनं कारणं युज्यते? इत्याशङ्कयाह"अनवद्यं च" निर्दोषं च "एतदू" द्रव्यस्तवकारणं, हेतुमाह-"दोषान्तरनिवृत्तिद्वारेण" दोषान्तरादू-द्रव्यस्तवापेक्षयाऽन्यस्मादिन्द्रियार्थहेतोर्महतः कृष्याद्यारम्भविशेषात्तस्य वा या निवृत्तिः-उपरमः स एव द्वारम्-उपायस्तेन, ननु कथ| मिदमनवद्यम् ? अवद्यान्तरे प्रवर्तनादित्याशङ्कयाह-"अयं" दोषान्तरान्महतो निवृत्तिरूपः “अत्र" द्रव्यस्तवोपदेशने | "प्रयोजकः" प्रवर्तकः "अंशः” निवृत्तिरूपाया द्रव्यस्तवकर्तृक्रियाया विभागः, कुत इत्याह-"तथाभावतो" दोषान्तरनिवृत्तिभावात् "प्रवृत्तेः" चेष्टायाः “उपायान्तराभावात्" द्रव्यस्तवपरिहारेण अन्यहेतोरभावात्, कथमित्याह__ नागभयसुतगर्त्ताकर्षणज्ञातेनं भावनीयमेतत् , तदेवं साधुरित्थमेवैतत्सम्पादनाय कुर्वाणो नाविषयः, ॐा वचनप्रामाण्यात् , इत्थमेवेष्टसिद्धेः, अन्यथाऽयोगादिति, श्रावकस्तु सम्पादयन्नप्येतौ भावातिशयात् । अधिकसम्पादनार्थमाह, न तस्यैतयोः सन्तोषः, "नागेत्यादि"नागभयेन-सर्पभीत्या सुतस्य-पुत्रस्य गर्त्तात्-श्वभ्रादाकर्षणम्-अपनयनमेतदेव ज्ञातं-दृष्टान्तस्तेन"भावनी१०पदेशनेन प्र०२ उपायादुपायान्तरं तस्याभावात् ३ न्यायेन प्र०॥ Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600120
Book TitleLalitvistarakhya Chaityavandan Sutra Vrutti
Original Sutra AuthorHaribhadrasuri
AuthorMunichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy