________________
10000
3000000
तस्य भावः कर्म वा वर्णदृढादिलक्षणे व्यत्रि ( वर्णदृढादिभ्यः ष्यञ्च पा० ५-१-१२३ ) कृते चैत्यं भवति, तत्रार्हतां प्रतिमाः प्रशस्तसमाधिचित्तोत्पादकत्वादर्हचैत्यानि भण्यन्ते तेषां किम् ? - 'करोमि ' | इत्युत्तमपुरुषैकवचननिर्देशेनात्माभ्युपगमं दर्शयति, किमित्याह - कायः - शरीरं तस्योत्सर्गः - कृताका| रस्य स्थान मौनध्यानक्रियाव्यतिरेकेण क्रियान्तराध्यासमधिकृत्य परित्याग इत्यर्थः, तं कायोत्सर्गम् । | आह— कायस्योत्सर्ग इति षष्ठ्या समासः कृतः, अर्हचैत्यानामिति च प्रागावेदितं, तत्किमर्हच्चै - त्यानां कायोत्सर्ग करोमीति, नेत्युच्यते, षष्ठीनिर्दिष्टं तत्पदं पदद्वयमतिक्रम्य मण्डूकप्लुत्या वन्दनप्रत्ययमित्यादिभिरभिसम्बध्यते, ततश्चार्हचैत्यानां वन्दनप्रत्ययं करोमि कायोत्सर्गमिति द्रष्टव्यं, “कृताकारस्येति” विहितकायोत्सर्गार्हशरीरसंस्थानस्य उच्चरित कायोत्सर्गापवादसूत्रस्य वेतिं ॥
तत्र वन्दनम् - अभिवादनं प्रशस्तकायवाङ्मनः प्रवृत्तिरित्यर्थः, तत्प्रत्ययं तन्निमित्तं, तत्फलं मे | कथं नाम कायोत्सर्गादेव स्यादित्यतोऽर्थमित्येवं सर्वत्र भावना कार्या, तथा “पूयणवत्तियाएत्ति" पूजनप्रत्ययं - पूजननिमित्तं, पूजनं - गन्धमाल्यादिभिः समभ्यर्चनं । तथा "सक्कारवत्तियाएत्ति" सत्कार१ ०रस्थान० प्र० २ चेति प्र०
Jain Education International
For Private & Personal Use Only
9000903999369००३०००८
www.jainelibrary.org