________________
ललितवि०
॥ ७६ ॥
100000
1000003
गृहीतभावः सहृदयेनटवत् अधिकृत भूमिकासम्पादनार्थं चेष्टते वन्दनासम्पादनाय ॥ ( इति प्र| णिपातसूत्रव्याख्या ) ॥
“द्विविधेत्यादि” द्विविधं द्विप्रकारमुक्तं प्रवचनार्थदेशः, तदेव व्यनक्ति - "शब्दोक्तं" सूत्रादिष्टमेव " अर्थोक्तं " सूत्रार्थयुक्तिसामर्थ्यगतं । इति श्रीमुनिचन्द्रसूरिविरचितललितविस्तरा पञ्जिकायां प्रणिपातदण्डकः समाप्तः ॥
स चोत्तिष्ठति जिनमुद्रया पठति चैतत्सूत्रम् - 'अरिहंत चेइयाणं करेमि काउस्सग्गं वंदणवत्तियाए पूअणवत्तिआए सकारवत्तिआए सम्माणवत्तिआए बोहिलाभवत्तिआए निरुवसग्गवत्तिआए | सद्धाए मेहाए धिइए धारणाए अणुप्पेहाए वडमाणीए ठामि काउस्सगं' । अनेन विधिनाऽऽराधयति स महात्मा वेन्दनाभूमिकां,
| आराध्य चैनां परम्परया नियोगतो निवृत्तिमेति, इतरथा तु कूटनटनृत्तवत् अभावितानुष्ठानप्रायं न विदुषामास्थानिबन्धनम्, अतो यतितव्यमत्रेति । सूत्रार्थस्त्वयम् - अशोकाद्यष्टमहाप्रातिहार्यादिरूपां पूजाम र्हन्तीत्यर्हन्तः - तीर्थकराः तेषां चैत्यानि - प्रतिमालक्षणानि अर्हचैत्यानि, चित्तम् - अन्तःकरणं १ सभ्यचित्ताऽभिप्रायचित्र दृढनृत्यवन्निजकार्यसिद्धचित्तः २ वन्दनायामेव परिणतो यदात्मा प्राप्यते तदा वन्दनाभूमिका तामाराधयति जयति ३ निर्वृत्तिमेति नियोगत इति प्र० ४ ०हार्यरूपा० प्र०
Jain Education International
For Private & Personal Use Only
पं० युता
॥ ७६ ॥
www.jainelibrary.org