SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ TEGOGGOOGO ___ एकस्यैकत्रोपयोगेनापरत्राभावात्, अनेककार्यकरणैकखभावत्वकल्पना तु शब्दान्तरेणैतदभ्युपग-10 मानुपातिन्येव, निरूपितमेतदन्यत्र, 'यतः स्वभावतो जातमेकं नान्यत्ततो भवेत् । ___ "एकस्य" हेतुस्वभावस्य "एकत्र" फले “उपयोगेन” व्यापारेण"अपरत्र" फलान्तरे अभावात् उपयोगस्य, आशङ्कान्तरपरिहारायाह-"अनेककार्यकरणैकस्वभावत्वकल्पना तु" एकोऽपि वस्तुस्वभावोऽनेककार्यकरणस्वभावः, ततो न केषाञ्चिदहेतुकत्वमित्येषा पुनः कल्पना "शब्दान्तरेण" अस्मदभ्युपगमादेकमनेकस्वभावमित्यस्माच्छब्दान्तरेण एकमनेककार्यकरणस्वभावमेवंलक्षणेन "एतदभ्युपगमानुपातिन्येव" एकमनेकस्वभावमित्यस्मन्मतानुसारिण्येव, न ह्येकस्मात्कथञ्चित्स्वभावभेदमन्तरेणानेकफलोदय इति प्राकूचर्चितमेव, निरूपितम् “एतद्" अनन्तरोक्तम् “अन्यत्र" अनेकान्तजयपताकायां, यथा निरूपितं तथैवाह-“यत इत्यादिश्लोकद्वयं" यतो-यस्मात् “स्वभावतो" वस्तुगतरूपरसादिरूपादुपादानभूतात् | "जातम्" उत्पन्नं "एक" कार्य वस्त्ररागादि, "नान्यत्" द्वितीयं स्वग्राहकप्रत्यक्षादिकं सहकारिभावेन “ततो" वस्तुस्वभावात् "भवेत्” जायेत, हेतुमाह, कृत्स्नं प्रतीत्य तं भूतिभावत्वात्तत्स्वरूपवत् ॥ १॥ अन्यच्चैवंविधं चेति, यदि स्याकिं विरुध्यते?। al तत्वभावस्य कात्स्येन, हेतुत्वं प्रथमं प्रति' ॥२॥ इत्यादिना ग्रन्थेनेति नेह प्रतन्यते । तदेवं | शानिरुपचरितयथोदितसम्पत्सिद्धौ सर्वसिद्धिरिति व्याख्यातं प्रणिपातदण्डकसूत्रम् ॥ SECREGாரு ECOBOOSE Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600120
Book TitleLalitvistarakhya Chaityavandan Sutra Vrutti
Original Sutra AuthorHaribhadrasuri
AuthorMunichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy