________________
ललितवि०
पं० युता.
॥ ७४॥
கருடு 000000000000
पक्षे बाधामाह-"नीलपीतादावपि" विषये "तद्भावापत्तेः" नीलवासनानिमित्तस्वभावत्वमेव पीतादिवासनानिमित्तस्व| भावत्वमित्याद्यापत्तेरिति, "भावनीय" परिभावनीयमेतत् यदुत-एकमेव वस्तु विचित्रवासनावशेन विचित्रव्यवहारप्रवृत्तिहेतुरिति न भवतीत्यर्थः, अन्यथा तत एव सर्वव्यवहारसिद्धेः किं जगद्वैचित्र्याभ्युपगमेन ?, प्रकृतसिद्धिमाह-"एवम्" उक्तनीत्या उभयथापि प्रकारद्वयेनापि, तदेवाह
उपादाननिमित्तभेदेन न सर्वथैकखभावादेकतोऽनेकफलोदयः, केषाञ्चिदहेतुकत्वोपपत्तेः, "उपादाननिमित्तभेदेन” उपादानभेदेन निमित्तभेदेन च 'न' नैव "सर्वथैकस्वभावतः" एकान्तकस्वभावात्, “एकतः" एकस्माद्धेतोः “अनेकफलोदयः” अनेकस्य-ऐहिकामुष्मिकरूपस्य फलस्य-कार्यस्य प्रसवः, यथा परैः परिकल्प्यते, तेषां हि | किल रूपालोकमनस्कारचक्षुलक्षणा रूपविज्ञानजननसामग्री, यथोक्तम्-"रूपालोकमनस्कारचक्षुर्व्यः सम्प्रवर्त्तते । विज्ञानं मणिसूर्याशुगोसकृद्भय इवानलः ॥१॥” इति, अत्र च रूपविज्ञानजनने प्राच्यज्ञानक्षणलक्षणो मनस्कार उपादानहेतुरिति, शेषाश्च रूपादित्रितयक्षणा निमित्तहेतवः, एवं रूपालोकचक्षुषामपि स्वस्वप्राच्यक्षणाः स्वस्वकार्यजनने उपादानहेतवः, |शेष त्रितयं च निमित्तहेतुरिति, एवमेकस्मादेकस्वभावादेकवस्तुनोऽन्येनान्येनोपादानहेतुनाऽन्यैश्चान्यैश्च निमित्तहेतुभिः | सहायैरनेककार्योदयः सर्वसामग्रीषु योज्य इति, एतन्निषेधानभ्युपगमे बाधकमाह-"केषामित्यादि" एकतोऽनेकफलो
IO७४॥ |दये “केपाश्चित्" फलानाम् 'अहेतुकत्वोपपत्तेः" निर्हेतुकत्वोपपत्तेः, कथमित्याह
१ स्वप्रा० प्र०२ स्वकार्य प्र०॥
3900000000000000000
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org