________________
रिति, न हि पितृवासनानिमित्तस्वभावत्वमेव पुत्रवासनानिमित्तखभावत्वं, नीलपीतादावपि तद्भावापत्तेरिति, परिभावनीयमेतत् , एवं उभयथाऽपि
"एकस्य" देवदत्तादेः "अनेकनिमित्तत्वायोगादू" अनेकेषां-पितृपुत्रादिव्यवहर्तृणां सहकारिभावायोगात् , ते हि तमेकं सहकारिणमासाद्य उपादानभेदेऽपि तथा सर्ववासनावन्तो भवन्ति, न च तस्य तदनुगुणतावत्स्वभावदरिद्रस्यानेकसहकारित्वं युक्तम्, अथ स्यात् 'न हि दृष्टेऽनुपपन्नं नाम दृश्यते हि एकस्मिन्नविभागवति सहकारिणि स्वोपादानभेदादनेकवासनाप्रवृत्तिः, एतत्परिहारायाह-"न" नैव “दर्शनादेव" प्रत्यक्षज्ञानरूपात् केवलाद् अविरोधः प्रस्तुतवासनाभेदस्येति, कुत इत्याह-"अभ्युपगमे विचारोपपत्तेः" अभ्युपगमो हि विचारयितुमुपपन्नो न दर्शनं, यद्येवं ततः किमित्याह-"न च” नैव "सोऽपि” अभ्युपगमः, अपिशब्दाद्दर्शनं च, "एवम्" एकस्यानेकसहकारित्वाभ्युपगमे न विरु| ध्यत एव, किन्तु विरुध्यत एव, कथमित्याह-"तदेकस्वभावत्वेन" व्यवह्रियमाणवस्तुनो निरंशैकस्वभावत्वेन "विरोधात्" निराकरणाद् , अनेकसहकारित्वाभ्युपगमस्य तस्यानेकस्वभावापेक्षित्वात्, अथानेकान्तेऽप्येकान्तपक्षक्षणप्रसङ्गपरिहारायाह-"न च" नैव “एकानेकस्वभावे" अनेकान्तरूपे विरोध एवेत्यपिशब्दार्थः, “अयमिति" व्यवहारविरोध | इति, कुत इत्याह-"तथा दर्शनोपपत्तेः" यथा वस्त्वभ्युपगतं तथा दर्शनेन व्यवहारस्योपपत्तेः-घटनात्, तामेवाह-नहि पितृवासनानिमित्तस्वभावत्वमेव, एकानेकस्वभावे वस्तुनि, पुत्रवासनानिमित्तस्वभावत्वं, स्वभाववैचित्र्यदारिद्याद्, वि
१ भावनीय पञ्जिका २ पित्रादित्वेन भाषकाणां ३ वक्तव्यं ४ प्रसूतिः प्र० ५०वाक्षेपात् ॥
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org