________________
ललितवि०
॥ ७३ ॥
पीतादिवत्पित्रादिवासनाया न भिन्ना पुत्रादिवासनेति निरूपणीयं, नोपादानभेदोऽप्यत्र परिहारः
“पीतादिवत्” पीतरक्तादिवासनावत् “पित्रादिवासनायाः" पित्रादिवासनामपेक्ष्य" न भिन्ना" न पृथकू पुत्रादिवासना किन्तु ! भिन्नैवेति, “इति” एतन्निरूपणीयं सूक्ष्माभोगेन, यथा नीलादि दृष्टं सन्नीलादिस्ववासनामेव करोति, न भिन्नां | पीतादिवासनामपि, तथैकस्वभावं वस्तु पित्रादि वासनामेकामेव कुर्यात्, न तद्व्यतिरिक्तामन्यां पुत्रादिवासनामपीति, | पुनराशङ्कापरिहारायाह – “न” नैव “उपादानभेदोऽपि न केवलं व्यवहरणीयपित्रादिनिमित्तो वासनाभेदः, किन्तु ? ॐ व्यवहारकोपादानकारणविशेषोऽपि वासनाभेदहेतुः "अत्र” एकस्वभावे वस्तुनि अनेकव्यवहारासाङ्गत्ये प्रेरिते "परिहारः " उत्तरं, परो हि पुत्रादेर्वासनाभेदनिमित्तत्वे प्रतिहते सति कदाचिदिदमुत्तरमभिदध्यात् यदुत - येयमेकस्मिन्नपि देवदत्ता - दावनेकेषां तं प्रति पितृपुत्रादिरूपतया व्यवस्थितानां या पुत्रादिवासनाप्रवृत्तिः सा तेषामेव स्वसन्तानगतमनस्कारलक्ष| गोपादानकारणभेदनिबन्धना, ने व्यवहियमाणवस्तुस्वभावभेदनिमित्तेति एतदपि अनुत्तरमेव, कुत इत्याह
90961
एकस्यानेकनिमित्तत्वायोगात्, न दर्शनादेवाविरोध इति, अभ्युपगेमे विचारोपपत्तेः न च सो | ऽप्येवं न विरुध्यत एव तदेकस्वभावत्वेन विरोधात् न चैकानेकस्वभावेऽप्ययमिति, तथा दर्शनोपपत्ते
१ नेदम् प्र० २ अभ्युपगमवि० प्र० ॥
Jain Education International
For Private & Personal Use Only
46699000C************
पं० युता.
॥ ७३ ॥
www.jainelibrary.org