________________
निबन्धनत्वे 'नित्यं सत्त्वमसत्त्वं वे'त्यादिप्रसङ्गात् , एवमपि किमित्याह-"नैकस्वभावादेव"नैकान्तकरूपादेव "ततो" व्यवहारविषयवस्तुनः “ताः" पित्रादिवासना इति, विपर्यये बाधकमाह-"रूपात्" कृष्णनीलादेर्वर्णात्
रसादिवासनापत्तेः, जातिभेदतो नैतदित्यप्ययुक्तं, नीलात्पीतादिवासनाप्रसङ्गात काभावत्वान्नैतदित्यप्यसत्, वामात्रत्वेन युक्त्यनुपपत्तेः, न हि नीलवासनायाः
"रसादिवासनापत्तेः" रसस्पर्शादिविचित्रवासनांपत्तेः, एकस्वभावादपि परैरनेकवासनाभ्युपगमात्, परिहारान्तरमाश|| याह-"जातिभेदतो" रूपरसादिजातिविभागतो "नैतत्" न रूपाद्रसादिवासनापत्तिः, अत्यन्तभिन्ना हि रूपजाते र
सादिजातिः, कथमिव ततो रसादिवासनाप्रसङ्ग इति, तदप्ययुक्तं, कुत इत्याह-"नीलाद्" रूपविशेषाद्रूपत्वेनाभिन्नजातीयात् “पीतादिवासनाप्रसङ्गाद" द्रष्टुः पीतरक्तादिसजातीयवासनाप्रसङ्गात्, परिहारान्तरापोहायाह-"तत्तत्स्वभावत्वात्" तस्य-नीलादेस्तत्स्वभावत्वात्-पीतादिवासनानां सजातीयानामप्यजननस्वभावत्वात् , नीलादिवासनाया एव जननखभावत्वात् , न च स्वभावः पर्यनुयोगार्हः, 'अग्निर्दहति नाकाशं, कोऽत्र पर्यनुयुज्यते' इति, "न" नैव "एतत्" नीलात्पीतादिवासनाजन्मप्रसञ्जनम् “इति” एतदपि परिहारान्तरमसत्-असुन्दरं, कुत इत्याह-"वाङमात्रत्वेन" वाङ्मात्रमेवेदमिति युक्त्यनुपपत्तेः, तामेव भावयति-"न हि नीलवासनायाः" सकाशात् ,
१ यद्येतत्स्यात्तदा चक्षुषोऽपि रसादिज्ञानोद्भवः स्यात्सर्वेन्द्रियेभ्यः सर्वविषयज्ञानोद्भवः सुलभः स्यान्न च भवतीति ॥
ल०१३
Jain Education Intel
For Private & Personel Use Only
HDww.jainelibrary.org