SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ "अन्यथा" एकानेकस्वभावाभावेऽहंतां "कल्पनामात्र" कल्पना एव केवला निर्विषयबुद्धिप्रतिभासरूपा "एताः" चित्राः सम्पदः, ततः किमत आह-"इति" अतः कल्पनामात्रत्वात् “फलाभावो" मिथ्यास्तवत्वेन सम्यक्स्तवसाध्यार्थाभावो, न चैवं, सफलारम्भिमहापुरुषप्रणीतत्वादासामित्येतदुपन्यासान्यथानुपपत्त्यैव चित्ररूपवस्तुसिद्धिरिति । पुनः सामान्येन चित्ररूपवस्तुप्रत्यायनाय प्रयोगमाह-एकानेकस्वभावत्वं तु वस्तुन इति साध्यनिर्देशः, अत्र हेतुः वस्त्वन्तरैःसाध्यधर्मिव्यतिरिक्तैर्यः सम्बन्धः-तत्स्वभावापेक्षालक्षणस्तेनाविर्भूतान्यनेकानि-नानारूपाणि सम्बन्धीनि-सम्बन्धवन्ति रूपाणि स्वभावात् यस्य तत्तथा तस्य भावस्तत्त्वं तेन, दृष्टान्तमाह-पितृपुत्रभ्रातृभागिनेयैरादिशब्दात् पितृव्यमातुलपितामहमातामहपौत्रदौहित्रादिभिर्जनप्रतीतैः विशिष्ट-उपलब्धसम्बन्धो यः "एको” द्रव्यतया पुरुषः-तथाविधपुमां|स्तस्येव, अस्यैव दृढत्वसम्पादनार्थ पुनदृष्टान्तान्तरमाह पूर्वापरान्तरितानन्तरितदूरासन्ननवपुराणसमर्थासमर्थदेवदत्तकृतचैत्रखामिकलब्धक्रीतहतादिरूपघट- 18 विद्वा, सकललोकसिद्धश्चेह पित्रादिव्यवहारः, भिन्नश्च मिथः, तथा प्रतीतेः, तत्तत्वनिबन्धनश्च, Is “पूर्वेत्यादि” तत्तदपेक्षया पूर्वापरादिपञ्चदशरूपः, आदिशब्दादणुमहदुच्चनीचाद्यनेकरूपश्च यो घटस्तस्येव वा 0 १ हेतुमाह प्र०। २ एको घटोऽन्यैर्घटैविशिष्टो वाच्यतया भिद्यते । ருருருருருருரு Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600120
Book TitleLalitvistarakhya Chaityavandan Sutra Vrutti
Original Sutra AuthorHaribhadrasuri
AuthorMunichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy