________________
ललितषिरस्तोतव्यसम्पदादीनां गुणानां बहुमानेन-प्रीत्या सारं स एव वा सारो यत्र तत्सम्यगनुष्ठानं भवतीति सम्बन्धः, कथमित्याह॥ ७१॥ विशेषप्रणिधाननीतितस्तत्तद्दीजाक्षेपसौविहित्येन सम्यगनुष्ठानमिति च ज्ञापनार्थं, एकानेकखभा
|ववस्तुप्रतिबद्धश्चायं प्रपञ्च इति सम्यगालोचनीयं,
"विशेषप्रणिधाननीतितः" विशेषेण-विभागेन स्तोतव्यसम्पदादिषु गुणेषु प्रणिधान-चित्तन्यासस्तदेव नीतिः-प्रणिधी| यमानगुणरूपस्वकार्यप्राप्तिहेतुस्तस्याः "तद्वीजाक्षेपसौविहित्येन" तस्य-गुणस्याहत्त्वभगवत्त्वादेबीज-हेतुस्तदावारककर्महासस्तदनुकूलशुभकर्मबन्धश्च तस्य "अक्षेपः” अन्यभिचारस्तेन सौविहित्य-सुविधानं तेन “सम्यग" भावरूपम् अनुष्ठानमिति च ज्ञापनार्थम्-एतच्च ज्ञापितं भवतीतिभावः, इयं च चित्रा सम्पन्न स्याद्वादमन्तरेण सङ्गतिमङ्गतीति तत्सिद्ध्यर्थमाह-"एकानेकस्वभाववस्तुप्रतिबद्धश्च" द्रव्यपर्यायस्वभावाहल्लक्षणवस्तुनान्तरीयकः पुनः “अयम्" अनन्तरोक्तः । "प्रपञ्चः" चित्रसम्पदुपन्यासरूप "इति” एतत् “सम्यगालोचनीयं" अन्वयव्यतिरेकाभ्यां यथेदं वस्तु सिध्यति तथा विमर्शनीयं, विपक्षे बाधामाह___ अन्यथा कल्पनामात्रमेता इति फलाभावः, एकानेकखभावत्वं तु वस्तुनो वस्त्वन्तरसम्बन्धावि-| भूतानेकसम्बन्धिरूपत्वेन पितृपुत्रभ्रातृभागिनेयादिविशिष्टैकपुरुषवत् ,
१ चित्ररूपस्य गु० प्र०।
॥ ७१॥
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org