________________
RT "तदालम्बनचित्तवृत्तेरिति” भगवदालम्बनचित्तवृत्तेर्नमस्काररूपायाः, तत्फलमिति सम्बध्यते, नन्वेवं तर्हि भगव-11 लद्भ्य इत्याशङ्कयाहमतदाधिपत्यतः तत एव तद्भावात्,चिन्तामणिरत्नादौ तथा र्दशनादिति वक्ष्यामः,कथमेकपूजया सर्वपूजा
भिधानं?,तथा चागमः 'एगम्मि पूइयंमी,सवे ते पूइया होति”अस्ति एतद्,विशेषविषयं तु तुल्यगुणत्व-18 ज्ञापनेनैषामनुदारचित्तप्रवर्त्तनार्थं तदन्येषां सर्वसम्पत्परिग्रहार्थ सङ्घपूजादावाशयव्याप्तिप्रदर्शनार्थं च ॥ ____ "तदाधिपत्यतो" भगवदाधिपत्यतो, भगवन्त एव तच्चित्तवृत्तेस्तजनकेषु हेतुषु प्रधानत्वेनाधिपतयस्ततः "तत" एव | भगवद्भ्य एव "तद्भावात्" क्रियाफलभावात् , कथमित्याह-"चिन्तामणिरत्नादौ तथा दर्शनात्" चिन्तामण्यादौ प्रणिधानादेर्भवत् फलं चिन्तामणिरत्नादेर्भवतीति लोके प्रतीतिदर्शनाद्, “अनुदारे"त्यादि, "अनुदारचित्तप्रवर्तनार्थम्" अनु| दारचित्तो हि कार्पण्यात्सर्वपूजां कर्तुमशक्नुवन्नैकमपि पूजयेद्, अतस्तत्प्रवर्त्तनार्थमुच्यते एगमीत्यादि, द्वितीयं कारणमाह-"तदन्येषां पूज्यमानादन्येषां भगवतां, "सर्वसम्पत्परिग्रहार्थं च" सर्वा-निरवशेषाः सम्पदः-स्तोतव्यहेतुसम्पदादय उक्तरूपास्तासामवबोधनार्थ च, तेऽपि परिपूर्णसम्पद एवेति भावः, “सङ्घपूजादौ" सङ्घचैत्यसाधुपूजादौ आशयव्याप्तिप्रदर्शनार्थ चेति तृतीयं कारणमिति ॥
१ तद्भग० प्र०
000000000000000000000000
అంతంతంంంంంంంంంంంంంంం
en Education
For Private
Personal Use Only