________________
॥ ६९ ॥
ललितवि० आगमश्चोपपत्तिश्च, सम्पूर्ण दृष्टिलक्षणम् । अतीन्द्रियाणामर्थानां सद्भावप्रतिपत्तये ॥ २ ॥ आगमो ७ ह्याप्तवचनमाप्तं दोषक्षयाद्विदुः । वीतरागोऽनृतं वाक्यं, न ब्रूयाद्धेत्वसम्भवात् ॥ ३ ॥ तच्चैतदुपपत्त्यैव, | गम्यते प्रायशो बुधैः । वाक्यलिङ्गा हि वक्तारः, सद्वाक्यं चोपपत्तिमत् ॥ ४ ॥ अन्यथाऽतिप्रसङ्गः स्यात्, तत्तया रहितं यदि । सर्वस्यैव हि तत्प्राप्तेरित्यनर्थो महानयम् ॥ ५ ॥” इत्यलं प्रसङ्गेन, तदेवमर्हतां बहुत्वसिद्धि:, विषय बहुत्वेन च नमस्कर्तुः फलातिशयः, सदाशयस्फातिसिद्धेः । आह— एकया क्रियया अनेकविषयीकरणे कैवाशयस्फातिः, ?, नन्वियमेव यदेकया अनेकविषयीकरणं, विवेकफलमेतत्, आह - एवं ह्येकक्रिययाऽनेकसन्माननं बहुब्राह्मणैकरूपकदानतुल्यं, तत् कथं नाल्पत्वम् ?, उच्यते, क्रियाभेदभावात् सा हि रत्नावलीदर्शन क्रियेवैकरत्नदर्शनक्रियातो भिद्यते, हेतुफलभेदात्, सर्वार्ह - दालम्बनेयमिति हेतुभेदः, प्रमोदातिशयजनिकेति च फलभेदः, कथमित्थमल्पत्वं ?, ब्राह्मणैकरूपकदानोदाहरणं त्वनुपन्यसनीयमेव, रूपकादिव नमस्कारात् ब्राह्मणानामिवार्हतामुपकारायोगात्, | कथं तर्हि तत्फलमिति ?, उच्यते, तदालम्बनचित्तवृत्तेः,
१ विधि० प्र० । २ प्रायशो गम्यते बुधैः प्र० ।
960900666
Jain Education International
For Private & Personal Use Only
१००००0000000
पं० युता.
॥ ६९ ॥
www.jainelibrary.org